________________
66
अलंकारमणिहारे
भक्तया । चक्रीति समाख्यैव क्रीतत्वममुष्य वदति सुस्पष्टम् ॥ २१०२॥
चक्रीति समाख्या नामैव अमुष्य भगवतः क्रीतत्वं क्रयणकर्मत्वं, पक्षे क्रीत्याकारकवर्णेन इतत्वं युक्तत्वम् । अत्रापि स्वविवक्षिते क्रोतत्वरूपेऽर्थे शब्दार्थतादात्मयमूलकश्लेषमहिना समाख्यैव प्रमाणतां गमिता। अत्र 'भक्तिक्रीतो जनार्दनः' इति प्रमणार्थोऽनुसंधेयः॥
यथावा
त्वत्पदविधुतो रविरिह खेऽटेष्वग्रेसरो भवन भगवन् । व्यग्रोऽप्यभवनूनं समांख्ययैवावगम्यतेऽर्थोऽसौ ॥ २१०३ ॥
हे भगवन् ! रवि: भानुः रविशब्दश्च । त्वत्पदेन तव चरणरुचोत यावत् विधुतः अतएव खेटेषु गर्येषु 'खेटगाणकास्समाः' इत्यमरः । गगनचारिषु ग्रहेष्विति तत्त्वम् । अग्रे. सरः श्रेष्ठः अन्यत्र अग्रे आदौ सरः शब्दार्थतादात्मयबलेन रेफविशिष्ट इत्यर्थः। भवन् सन् व्यग्रोऽपि व्याकुलोपि अभवत् । विः विवर्णः अग्रे प्रान्ते यस्य स तथाभूतश्च "अगं पुरस्तादुपरि परिमाणे पलस्य च । आलम्बने समूहे च प्रान्ते च स्यानपुंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत्" इति मेदिनी। अभवत् । नूनमिति सम्भावनायाम् । अत्र तस्य समाख्ययैवायमर्थः अवगम्यते । उक्तरीत्या समाख्यया तादृशार्थलाभादिति भावः । अत्रापि स्वविक्षितेऽर्थे समाख्यैव श्लेषमहिना प्रमाणीकृता॥