________________
शब्दप्रमाणसरः (११९)
6
हे विश्वात्मन् ! इदं अत्रैव उदाहरिष्यमाणवचनस्थविश्वात्मशब्दप्रत्यभिज्ञापकम् । स इत्येतत् वेधःप्रभृतिषु सर्वेष्वप्यनुषञ्जनीयम् । सः लोकस्रष्टतया प्रख्यात: वेधाः चतुर्मुखः, स: जगत्संहर्तृत्वेन प्रसिद्धः कृत्तिवासाः पिनाकी, सः अमराधीशत्वेन प्रथितः बृद्धश्रवाः इन्द्रश्च सान्ताः अन्तेन सह वर्तन्त इति तथोक्ताः । विनश्वरा इत्यर्थः । पक्षे उक्तास्सर्वेऽपि शब्दास्सकारान्ता इत्यर्थः। सः ‘अजरोऽमृतः। विजरो विमृत्युः । सत्यं ज्ञानमनन्तम्' इति श्रुतिशतख्यापितः त्वं नान्तः अनन्तः नशब्दपूर्वको बहुव्रीहिः । नित्य इत्यर्थः । पक्षे विश्वात्मानिति शब्दो नकारान्त इत्यर्थः। अत्र मानं प्रमाणं युष्माकं ते च त्वं च यूयं तेषां 'त्यदादीनां मिथस्सहोतो यत्परं तच्छिप्यते' इति परैकशेषः । समाख्या नामैव । अत्र
ब्रह्मादिषु प्रलीनषु नष्टे लोक चराचरे । आभूतसंप्लवे प्राप्ते प्रलीने प्रकृतौ महान् ।
एकस्तिष्ठति विश्वात्मा स तु नारायणः प्रभुः ॥ इति श्रीमन्महाभारतवचनं,
ब्रह्मा शम्भुस्तथाऽर्कश्च चन्द्रमाश्च शतक्रतुः । एतदाद्यास्तथैवान्ये युक्ता वैष्णवतेजसा ॥ जगत्कार्यावसानेषु वियुज्यन्ते स्वतेजसा । वितेजसश्च ते सर्वे पञ्चत्वमुपयान्ति च॥ इति श्रीविष्णुधर्मोत्तरवचनं चार्थतः प्रत्यभिज्ञाप्यते । अत्र विवक्षितेऽर्थे समाख्यायाः प्रमाणता ॥
यथावा - नतनिवहेन क्रीतो नितरां चक्री समिद्धया