________________
शब्दप्रमाणतरः (११५)
55
श्लेषेण परिकल्प्य तदधिक्षेपाय तद्वाक्यस्य प्रमाणतयोपन्यास इति पूर्वेभ्यो वैलक्षण्यम् ॥
यथावा
असति विरोधे स्मृत्या श्रुत्या उपबृंहणं किल न्याय्यम् । श्रुतिरेव तव गुणानां स्मृतिमुपबृंहयति हन्त नश्शौरे ॥ २०८५॥
हे शौरे ! विरोधे असति प्रत्यक्षश्रुतिविरोधे अविद्यमाने सति स्मृत्या मन्वादिप्रणीतधर्मसंहितया श्रुत्याः वेदस्य उपबृंहणं अस्पष्टार्थविशदीकरणं न्याय्यं मीमांसान्यायादनपेतम् । किलति शास्त्रीयवार्तायाम् । सति तु श्रुतिविरोधे स्मृतेरनादरणीयतैव । 'औदुम्बरी स्पृष्ठोद्गायेत्' इति स्पर्शन श्रुतिविरोधे 'औदुम्बरो सर्वा वेष्टयितव्या' इति सर्ववेष्टनस्मृतरिवेति भावः। तदेतत्सूत्रितं महर्षिणा-'विरोधे त्वनपेक्ष्यं स्यादसति हनुमानम्' इति । एवं सति शास्त्रीयप्रस्थाने विपरीतमेतदित्याह-श्रुतिरिति। तव गुणानां सत्यत्वज्ञानत्वादिकल्याणगुणानां श्रुतिरेव 'सत्यं ज्ञानमनन्तं ब्रह्म, यस्सर्वशस्सर्ववित्' इत्यादिगुणप्रतिपादिका श्रुतिरेव । पक्षे-निशमनमेव नः अस्माकं स्मृतिं त्वत्कल्याणगुणादिविषयकां स्मृति 'सर्वज्ञस्सर्वक्सर्वशक्तिर्ज्ञानबलार्द्धमान्' इत्यादिपराशरादिस्मृतिमित्यर्थः । अन्यत्र तव स्मरणं स्मृतिसंतानमिति यावत् । उपबृंहयति अभिवर्धयति । हन्तेति वैपरीत्यचिन्तनजनिताश्चर्ये । अत्र श्लेषगर्भस्वोक्तार्थवैचित्र्यपरिपोषाय पूर्वमीमांसान्यायरूपशब्दप्रमाणोपन्यास इति पूर्वस्माद्विशेषः ॥ .
यथावापादान्ते सत्तास्ते लघवो वा दधति गौरवं