________________
54
अलंकार मणिहारे
लपदज्ञः नतु परमपदज्ञः अनाघ्रात भगवच्छास्त्र सत्संप्रदायगन्धशुष्कवैयाकरणः स्वाधीतव्याकरणमात्र दत्तदृष्टिरित्यर्थः । संदेग्धि 'पुमान् स्त्रिया' इत्यनेन तल्लक्षणमात्रविशेषसद्भावे पुंस एवावशेषस्य विहितत्वात् कथं स्त्रीलिङ्गस्य विश्वंभराशब्दस्यावशेष - स्स्यादिति संशेते इति भावः । अत्र केवलवैयाकरणेन केन - चिदुपपादितार्थस्य व्याकरणावरोधं प्रदर्शयितुं भगवच्छास्त्रवचनार्थोपार्नबन्ध इति विशेषः । श्लेषोत्तम्भितत्वं तु पूर्ववदेव ॥
यथावा
एकमनेकानुगतं नित्यं सामान्यमिति वचो वितथम् । एकमनेकानुगतं नित्यमसामान्यमेव य
• ह्रह्म ।। २०८४॥
यद्वस्तु एक अनेकेषु गवादिव्यक्तिषु अनुगतं अनुस्यूतं नित्यं नाशाप्रतियोगि च । तत् सामान्यं जातिरित्यर्थः । 'जातिजतं च सामान्यम्' इत्यमरः । इति वच: 'नित्यमेकमनेकानुगतं सामान्यम्' इति नैयायिकवचनं वितथम् । कुत इत्यत आह—यत् यस्मात्कारणात् ब्रह्म एकं अनेकानुगतं नित्यमपि असामान्यं अजातिरेव । परमार्थतस्तु एकं असदृशं अनेकेषु चेतनाचेतनेषु अनुगतं अनुप्रविष्टं ' यः पृथिव्यां तिष्ठन् य आत्मनि तिष्ठन्, अन्तः प्रविष्टश्शास्ता जनानाम्' इत्यादिश्रुतेः । नित्यं 'नित्यो नित्यानाम्' इति श्रवणात् । असामान्यं अनितरसदृशं ‘न तत्समश्चाभ्यधिकश्च दृश्यते' इति श्रुतेः । यद्वा असामान्यं अत्युत्कृष्टामित्यर्थः । ' सामान्यास्तु परार्थमुद्यमपरास्स्वार्थाविरोधेन ये' इत्यादी सामान्यशब्द उत्कर्षापकर्षहीने हि प्रयुक्तः । अत्र स्वविवक्षितार्थप्रत्यनीकतां न्यायविद्वाक्यस्य