________________
40
अलंकारमणिहारे
रीत्या तव निरतिशयप्रीतिपात्रतामापद्यतेति भाव: । अत्र न सन्देहः। यद्वा वृद्धः प्रवृद्धः अच्छः देवतान्तरसंबन्धगन्धदवीयस्तया विमलः प्रत्ययो विश्वासो यस्य स तथाभूतः महाविश्वासशालीत्यर्थः। त्वदीयः स्वदेकशरणः पुमान् वृद्धाच्छप्रत्यय इत्यावृत्त्या योज्यम् । अभिवृद्धनिर्मलज्ञानः ‘सर्व ह पश्य: पश्यति । स चानन्त्याय कल्पते' इत्युक्तरीत्या नित्यासंकुचितशानो भवेदित्यर्थः । त्वयि महाविश्वासोपलक्षितात्मरक्षाभरसमपणं विदधानो मुक्तो भवतीति भावः । अत्र प्राथमिकेऽर्थे उपा सना द्वितीयस्मिन्नयास इति वैलक्षण्यम् ॥
अन्यत्र वृद्धाच्छप्रत्यय इति सप्तम्यन्ततया छेदः । वृद्धाच्छप्रत्यये ‘वृद्धाच्छः' इति सूत्रविहितछप्रत्यये कृते सति त्वदीय इति रूपं भवतीत्यावृत्त्या योजनीयम् । 'त्यदादोनि च' इति युष्मच्छब्दस्य वृद्धसंज्ञायां 'वृद्धाच्छः' इति छप्रत्यये विहिते त्वदीय इति रूपं सिद्धयतीत्यर्थः । उतरार्थ सुगमम् । अत्र स्वाभिमते उपपादेितेऽर्थे पाणिनिस्मृतेः प्रामाणतयाऽवतारणम् ।
यथावा
इयमादेशमजाये धत्ते सुप्प्रत्यये परेऽपि श्रीः । अवतीलोपगताऽस्मिन्नर्थे शाब्दिकमुनेर्वचो मानम् ॥ २०६६ ॥
हे श्रीः! इलोपगता इलया भूदेव्या उपगता समीपाश्रिता 'लक्ष्मीप्रियसखीम्' इति भूदेव्याः श्रीसखीत्वश्रवणादिति भावः । इयं भवती सुप्रसिद्धा त्वं अजाद्ये ब्रह्मादौ चतुर्मुखस्यापि कारणभूते इति परमात्मन एव विशेषणं वा । सुष्प्रत्यये शोभनज्ञाने, प्रत्यय इत्युपलक्षणं शक्तिबलादानामपि परिपूर्णज्ञानादिषाड्गुण्ये