________________
शब्दप्रमाणसरः (११५)
41
इत्यर्थः। परेऽपि भगवत्यपि 'परोऽरिपरमात्मनोः' इति विश्वः । आदेशं शासन धत्ते पुष्णाति। 'यदपाङ्गाश्रितं सर्व जगत् स्थावरजङ्गमम् । यद्भभङ्गाः प्रणाणं स्थिरचररचनातारतम्ये मुरारेः' इत्याद्यक्तः ॥
पक्षे-श्रीः श्रीशब्दः अजाये अच् आद्यो यस्य तस्मिन् सुप्प्रत्यये सुप्प्रत्याहारघटक औजस् इत्यादौ प्रत्यये परे सति । अपिशब्दो भिन्नक्रम उत्तरत्रान्वति । इयं इय् इत्याकारकं आदेशं धत्ते । भवति ईलोपगता इति छेदः । ईलोपं ईकारादर्शन गताऽपि प्राप्ताऽपि, अपिस्समुच्चये। भवति भूधातोर्लट् । अस्मिनर्थे शाब्दिकमुनेः पाणिनेः वचः प्रमाणम् । श्रीशब्दस्याजादौ विभक्ती परत: 'अचि धातुभ्रवां य्वोरियडुवङौ' इति विहितस्य इयङो ङित्त्वात् 'ङिच्च' इत्यनेन अन्त्यवर्णस्य ईकारस्यादेशविधानादिति भावः । ईकारस्य इयडाऽपहृतत्वाददर्शनम् । अत्रापि स्वविवक्षिते श्रुत्यादिसिद्धे श्रीपरत्वरूपेऽर्थे उपपादितश्लेषमूलाभेदाध्यवसायेन पाणिनीयवचसः प्रमाणतयोपन्यासः ॥
यथावा--
आस्ते विष्णुर्नित्यं पदे परस्मिञ् श्रिया त्रिलोकतनुः। नित्यसमासवचस्तत्पुरुषस्योत्तरपदे तदत्युचितम् ॥ २०६७ ॥
त्रिलोकतनुः सकलजगच्छरीरकः 'जगत्सर्व शरीरं ते' इत्यादिप्रमाणात् । त्रिलोकेत्यत्र 'दिक्संख्ये संज्ञायाम्' इति नियमेन समासाप्राप्तौ 'तद्धितार्थोत्तरपदसमाहारे च' इत्यनेन समासः । त्रयो लोका: तनुः यस्येति त्रिपदे बहुव्रीही कृते तनुशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः । अत्रावान्तरतत्पुरुषस्य
ALANKARA IV.