________________
शब्दप्रमाणसर: (११५ )
धिराजस्सर्वेषां विष्णुर्ब्रह्ममयो महान्' इत्यादिश्रुतिस्मृतिभ्यः । ‘सलक्ष्मीकस्य साम्राज्यं सर्वधा सुप्रतिष्ठितम्' इत्याचार्यश्रीसूक्तेश्च । न ह्यलक्ष्मीकानां साम्राज्यं कदापि भवेदिति भावः । तस्यैव सलक्ष्मीकस्यैव पुरुषत्वं चापि 'पूर्वमेवाहमिहासमिति तत्पुरुषस्य पुरुषत्वम्' इति निरुक्तसर्वकारणत्व सर्वान्तर्यामित्वादिप्रकाश कपुरुषशब्दवाच्यत्वं च भवति ' ही श्च ते लक्ष्मीश्च पत्नचौ' इति लक्ष्मीजानेरेव ' वेदाहमेतं पुरुषं महान्तम्' इति पुरुषत्वश्रवणात् । एवं श्रुतिसिद्धे स्वाभिमतार्थे पाणिनीयसूत्रलक्षणस्मृतिमपि श्लेषेण प्रमाणीकरोति - यदिति । तदा पूर्वार्ध - स्यैवमर्थः यत् यस्मात् सम्राडिति शब्दः सम एव मकारसहित एव भवेत् 'मो राजि समः कौ' इति क्विबन्ते राजतौ परे समो मकारस्य मकारविधानात् । न तु 'मोऽनुस्वारः' इति विहितानुस्वारसहितः । तस्यैव सम्राट्छब्दस्यैव पुरु भूयिष्ठं यथातथा 'पुरुभूः पुरु भूयिष्ठम्' इत्यमरः । षत्वं ' ब्रश्वभ्रस्जसृजमृजयजराजभ्राजच्छशां षः' इति जश्त्वस्थानिभूतं षत्वं भवति । सम्राडिति शब्द उक्तप्राक्रयया निष्पद्यत इति भावः ॥
यथावा
39
वृद्धाच्छप्रत्यय इह भवेत्त्वदीयो न चात्र संदेहः । स्मरति हि भगवान् पाणिनिरमुमर्थं शेषशेलमौलिमणे । २०६५ ॥
हे शेषशैलमौलिमणे ! वृद्धः अभिवृद्धः तैलधारावदविच्छिन्न इति यावत् । अच्छः विजातीयप्रत्ययानन्तरिततया निर्मलश्च प्रत्ययः त्वद्विषयकध्यानं यस्य स तथाभूतः त्वदीयो भवति 'प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः' इत्युक्त