________________
254
अलङ्कारमणिहारे
अथ वर्णनियमः. तत्रापञ्चवर्गीणचित्रं यथा, ममैव प्रपन्नानन्दस्तुतौ
सरसिरहालयवासा या सा शिशिरांशुहारिलवहासा । वरसारसशालिशया सरसा सा श्रीविशिश्रिये शिरसा ॥ २३४७ ॥
लवहासो मितहसनम् । सा श्रीः शिरसा विशिश्रिये आश्रिता। अत्र कचटतपवर्गीयवर्णवैधुर्येण यकारादिवर्णा एव न्यबध्यन्त। इदमेवास्पर्शवर्णचित्रम् ॥
यथावा
वासवसवहर सवहरवरवश्यासुरवरासशौर्य हरे । वल्लववलयसहाय स्वयं श्रिया सह विहारशीलाव्याः ॥ २३४८॥
वासवसवस्य इन्द्रयागस्य हर । सवहरवरस्य शम्भुदत्तवरस्य वश्य: यः असुरवरः बाणासुरः तं अस्यति निरस्यतीति तथोक्तं शौर्य यस्य तस्य संबुद्धिः। वल्लववलयस्य गोपोलजालस्य सहाय श्रिया सह विहारशील हरे! स्वयं मत्कृतकिंचित्कारमनपेक्ष्य अव्याः रक्ष । इदमपि पूर्ववदपञ्चवर्गीयचित्रम् ॥
अनन्तस्थोष्मवर्णचित्रं यथा
कनककनदनयधामा घनभूमा काऽपि जगदधिपभामा । दलां मम मतिमत्तामतिमत्तानां पदा. न्तिकं मा गाम् ॥ २३४९ ॥