________________
शब्दालङ्कारसरः (१२२)
253
तीति खगगः तार्क्ष्यवाहन इत्यर्थः। 'अन्यत्रापि दृश्यत इति वक्तव्यम्' इति' वार्तिकात् गमेर्डः। यद्वा खगं भानुं गच्छतीति खगगः सवितृमण्डलान्तर्वर्तीत्यर्थः ‘य एषोऽन्तरादित्ये' इत्यादिश्रुतिभ्यः । अङ्कागाङ्काकाङ्कगकङ्कककङ्काकहा-अकं संख्यां न गच्छतीत्यङ्कागः असंख्याक इत्यर्थः । यद्वा अङ्क कलङ्क न गच्छतीत्यङ्कागः निष्कलङ्क इत्यर्थः। योऽङ्कः चित्रयुद्धं तस्य अङ्कः स्थानं तस्य अकं समीपं गच्छतीत्यङ्काङ्कगः। यद्वा अङ्कः अपराधः तं न गच्छतीत्यङ्कागः निरपराध इत्यर्थः । तथोक्तश्चासावकाङ्कगश्चेति विशेषणोभयपदः कर्मधारयः। तादृशो यः कङ्ककः गृध्रः जटायुरित्यर्थः। तस्य कङ्काकहा कङ्कः यम: तत्कृतं यत् अकं दुःखं तद्धन्तीति तथोक्तः। हन्तेः क्विप् ‘या गतिर्यशशी. लानाम्' इत्यादि वदता भगवता तस्य दिव्यस्थानप्रदानेन यमविषयगमनदुःखस्य गळहस्तितत्वादिति भावः।
अकं दुःखाघयोरङ्को भूषारूपकलक्ष्मसु । चित्राजौ नाटकाद्यंशे स्थाने क्रोडेऽन्तिकागसोः ॥ इति हेमचन्द्रः । खगाङ्काङ्कः खं परमव्योम गच्छतीति खगः. यः अङ्कः 'दिव्यं स्थानमजरं चाप्रमेयम्' इत्यायुक्तः श्रीवैकुण्ठाख्यस्थानविशेषः । तस्य अङ्कः आभरणभूत इत्यर्थः । अत्र भगवांस्तार्यवाहनः परमव्योमनिलयश्श्रीवत्सवक्षा एव रामात्मनाऽवतीर्य काकासुराविपदपनयनो जटायुनिश्श्रेयसविश्राणयिता च भूत्वाऽर्चात्मना शेषाद्री निवसतीति निर्गळितोऽभिप्रायः। परमव्योमनिलयत्वादिना परत्वं विभवरूपावस्थानेन सौलभ्यं अर्चात्मनाऽवस्थानेन तस्यैव निरातिशयत्वं च व्याजतम् । अत्र कण्ठ्यैरेव स्वरैयंजनैश्च पद्यरचना । दुष्करमिदं चित्रमित्याहुः॥