________________
252
अलङ्कारमणिहारे
(
बाहु भजत इति भोगाभोगाभबाहुभाक् । भूभागमखभुगगभाक् । भूमागं भूमिप्रदेशं मखभुगगं स्वर्तुमं भाजयति सेवयतीति तथा । भजतेर्ण्यन्तात् क्विप् । कल्पतरुं भुवं नतिवानित्यर्थः । यद्वा भज विश्राणने' इत्यस्माञ्चौरादिकात् क्विप् । कल्पतरुं भूलोकाय विश्रा णितवानित्यर्थः । अतएव भामामामापोह इत्युक्तम् । अतएव महाभूमा विपुलमहिमा अघहा अघासुरहन्ता भगवान्यदुनन्दनः मामकपापापहः मदीयदुरितहरः भवतीति शेषः । अत्र कण्ठ्यौष्ठयवर्णैरेव निबन्धनमिति निस्तालव्यमूर्धन्यदन्त्यचित्रमिदम् | अत्रापि मकारङकारयोः कण्ठ्यौष्ठयमात्रत्वं पूर्ववत् अकार आकार उकार ऊकार ओकारश्चेति पञ्चैव स्वरा इति स्वरनियमो ऽप्यभ्युचीयते ॥
एकस्थानवर्णनियमो यथा
काकाघहाऽङ्कगाङ्कः खगाङ्कगागागगाहकः खगगः । अङ्कागाङ्काङ्काङ्कग कङ्कककङ्का कहा खगाङ्काङ्कः ।। २३४६ ॥
काकाघहा काकस्य ऐन्द्रेर्वायसस्य अघं दुःखं हन्तीति तथोक्तः। अङ्कगाङ्कः अङ्कं श्रीवत्साख्यं लक्षणं गच्छतीत्यङ्कगः अङ्कः क्रोड यस्य सः श्रीवत्सवक्षा इत्यर्थः । कोशस्त्वनन्तरमवोदाहरिष्यते । खगाङ्कगागागगाहकः – खगाः सदः अङ्कङ्गाः समीपगाः यस्य सः अत्युन्नत हाते यावत् । तथोक्तः अगाग: फणिगिरिः ' अगो नगश्च भुजगे नाभौ भूरुहि भूधरे' इति रत्नमाला । 'अगस्स्यान्नगवत्तरौ । शैले सरीसृपे भानौ' इति हेमचन्द्रश्च । खगाङ्कगश्चासावगागश्च खगङ्कगागागः तस्य गाहकः उन्नततमं शेषाचलं प्रविष्ट इत्यर्थः । गाहतेवुल् । खगं खगेन वा गच्छ