________________
शब्दालङ्कारसर
251
कान्तेः आनन्त्यात् अत्यन्तया शान्त्या च कान्ता मनाचा दयाजलधिः कनन्त्या प्रकाशमानया कनककाश्चिकया अश्चिता कनकनगनाथदयिता जगति जयतीति योजना । इदं कण्ठ्यतालव्यदन्त्यवगैरेव निबद्धामति निरोष्ठयमूर्धन्यचित्रम् । अत्रापि 'दृष्टिश्रृतिभूभृद्विभु' इति प्रागुदाहृतनिष्कण्ठ्यचित्रपद्य इव नकार ईकारयो दन्त्यतालव्यत्वमात्रविवक्षया न स्थाननियमभङ्ग इति ध्येयम् । अन्यथा चतुस्स्थानवर्णनि यमस्यैवोदाहरणं भवेत् । अत्र अकार आकार इकार इति त्रिस्वरनियमाप्यभ्युच्चीयते ॥
यथावा
सकलेहितदाय जयश्शकलितदैत्याय सकलशशियशसे । सजलजलदालिलालितदीधितये स्तात्खगाचलेशाय ॥ २३४४ ॥
सकलशशियशसे पूर्णचन्द्रसदृशकीर्तये । खगाचलेशाय श्रीनिवासाय जयः स्तात् । इति योजना । 'जितं ते पुण्डरीकाक्ष' इतिवदत्र भगवतो जयाशासनम् । इदं तु शुद्धत्रिस्थानवर्णनियमोदाहरणं नासिक्यासंवलितत्वादिति पूर्वस्माद्विशेषः ॥
द्विस्थानवनियमो यथाभामाभामापोहो भोगाभोगाभबाहुभागघहा । भूभागमखभुगगनाङ्गामकपापापहो महाभूमा ॥
भामायाः सत्यभामाया. भामः कोपः ‘भाम क्रोधे' इत्यस्माद्भावे घञ्। 'भामः क्रोधे रवौ दीप्तौ' इति मेदिनी । सः अपोह्यते अपनीयतेऽनेनेति भामाभामापोहः । भोगस्य अहिकायस्य आभागः परिपूर्णतेवाभोगो यस्यास्सा तथोक्ता आमा ययोस्तो
19*