________________
250
अलङ्कारमणिहारे
यथावा
कनकनगकटकतटकनदगगहनग गगनसदनसततनत । जगदनघजयद घनदय जय गजदरदहनजलद नरकहर ।। २३४१ ॥
कनकनगस्य वृषाद्रेः कटकस्थ तटे कनतां लसतां अगानां तरूणां गहनं कानन गच्छतीति गहनगः तस्य संबुद्धिः गगनसदनैः दिविषद्भिः सततनत । जगतां अनघं दुःखासंभिन्नं जयं ददातीति जगदनघजयदः तस्य संबुद्धिः। गजदरदहनजलद गजस्य दरः भयमेव दहन : पाषकः तस्य जलद । नरकहर नरकारे जय उत्कर्ष प्राप्नहि । अत्रापि कण्ठ्यतालव्यमूर्धन्यवर्णा एव ग्रथिताः । इदं निरोष्ठयमेकस्वरं सर्वलघु चेति विच्छित्तिविशेषः पूर्वस्मात् ॥
शेषाचलभूषा शुभवेषा भाषापतिस्तुतिसतोषा। योषाहृदयविभूषा शेषाशेषाऽऽदिदेवता सैषा ॥
योषा लक्ष्मीः हृदयविभूषा यस्यास्सा सैषा आदिदेवता। शेषाः शेषभूताः अशेषाः सर्वे यस्यास्सा । अत्र श्रीनिवासमुद्दिश्य अशेषशेषित्वं विधीयते । इदं निर्नासिक्यवर्ण चित्रम् ॥ ____एवं चतुस्स्थानवर्णनियमो दर्शितः । अथ त्रिस्थानवर्णनियम उदाहियते
यथा--
कान्त्यानन्त्यात्कान्ता शान्त्या चात्यन्तया दयाजलधिः। कनकनगनाथदयिता कनति कनकाश्चिकाञ्चिता जगति ॥ २३४३ ॥