________________
शब्दालङ्कारसरः (१२२)
249
भयभरहरणं भवात् भवः उत्पन्नः यो भयभरः तस्य हरणं हर्तृ किमपि वैभवमेव वैभवत्वेनाध्यवसितं परं ब्रह्मैव अयि गीः हे वाणि! परिचर तद्गुणानेवानुवर्णयेत्यर्थः। अत्र कण्ठ्यतालव्यमूर्धन्यौष्ठयवर्णैरेव निबन्धः। इदमेव निर्दन्त्यचित्रम् । अत्र केवल. दन्त्यस्यैव निषेधः, तेन दन्तोष्ठस्थानकवकारसद्भावेऽप्यदोष इति ध्येयम् ॥
यथावा
फणिशेखरशिखरिशिखामरगणपरिबृढमणीशमञ्जुरुचिम् । रमणीरमणीयोरशारणं शरणं कमप्यये शरणम् ॥ २३३९ ॥
शरणं रक्षितारं रमणीरमणीयं उरश्शरण हृदयगृहं यस्य तं कमपि पुमांसं शरणमये उपायत्वे स्वीकरोमीत्यर्थः ॥
उपाये गृहरक्षित्रोश्शब्दश्शरणमित्ययम् ।
वर्तते सांप्रतं चैष उपायार्थंकवाचकः ॥ इत्यहिर्बुध्नयसंहितोक्तः । इदं सर्वधा निर्दन्त्यम् ॥
ममैव प्रपन्नानन्दस्तुती
जगदीशहदयनिलया जगताअननी जनार्तिहरणचणा । जलजदलायतनयना जलनिधितनया जयान्कलयतान्नः ॥ २३४० ॥
अत्र कण्ठ्यतालव्यमूर्धन्यदन्त्यवर्णानामेव निबन्धः । इदमेव निरोष्ठयमित्युच्यते । अत्र अकार आकार इकार ईकार ऋकारश्चे. त्येते पञ्चैव स्वरा निबद्धा इति विच्छित्तिविशेषः ॥
ALANKARA IV.
19