SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ 255 शब्दालङ्कारसरः (१२२) घनभूमा सान्द्रमहिमा जगदधिपभामा सर्वेश्वरदायता श्रीः मम मतिमत्तां दत्ताम् । अतिमत्तानां सुराणां नराणां वा पदान्तिकं चरणनिकटं स्थानसविधं वा मा गाम् । यथा दुर्दान्तश्वर-. मन्यान्तिकं न गच्छेयं तथा मम मतिमत्तां संपादयत्विति भावः । अत्र कादिमावसानास्स्पर्शा एव वर्णा निबद्धाः । न तु यादय ेऽन्तस्थाश्शादय ऊष्माणश्चेति व्यञ्जननियमः । अकार आकार इकार इति त्रय एव निबद्धा इति स्वरनियमो ऽप्यनुसंधेयः ॥ एकवर्गीयवर्णनियमो यथाधानादानाधीने दीनानाथाधिधूनननिदाने । नानानन्दनिधाने नाथेऽनधुनातने नतिं नाथे ॥ धानानां पृथुकतण्डुलानां दानेन अधीने आयत्ते कुचेलस्यति भावः । दीनानां अनाथानां शरण्यान्तरविरहिणां आधेः मनोव्यथायाः धूननस्य निदाने आदिकारणे । नानानन्दानां शतगुणितोत्तरक्रमेणाभ्यस्यमानानामानन्दानां निधाने निधो अनधुनातने नाथे पुराणपुरुषे भगवति नर्ति शरणागति नाथे आशासे ' आशिषि नाथः ' इत्यात्मनेपदम् । अत्र तवर्गीयवर्णैरेव निबन्धः ॥ यथावा नाथोऽनाथानां नो नेताऽनन्तोऽधुना धुनातु तथा । तां दीनतां ततो नो घिनोतु धीदानतो नतानेतान् ॥ २३५१ ॥ नाथः जगदीश्वरः अनाथानां रक्षकान्तरविधुराणां नः अस्माकं नेता अनन्तः भगवान् तां अनिर्वचनीयां दीनतां दैन्यं अधुना सांप्रतमेव तथा धुनातु अपुनरुन्मेषमुन्मूलयत्वित्यर्थः ।
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy