________________
अनुमानसरः (११३)
15
गवन् भवदीयजने जानन्ति कृतास्पदां जना भ. क्तिम् ॥ २०२४॥
इमे जनाः भगवति भक्तिमन्तः सामोदबाष्पपूरादिमत्वा- . दिति प्रयोगः ॥
यथावा___ यद्धर्माम्बुनिषिक्त क्षेत्रे पुलकाङ्कुराः प्रहष्यन्ति । तन्मन्येऽस्याश्शौरौ हृदयतटाकोऽनुरागरसपूर्णः ॥ २०२५ ॥
क्षेत्रमेव क्षेत्रमिति श्लिष्टरूपकं गात्ररूपकेदारमित्यर्थः । तस्मिन् 'क्षेत्रं शरीरे केदारे' इति मेदिनी। अत्र स्वेदाम्बुनिषिक्तक्षेत्राधिकरणकप्रहृष्टपुलकाङ्कुरत्वेन हेतुना ब्रजललनायाः भगवद्विषयकानुरागरसपरिपूर्णहृदयतटाकवत्वानुमानम् । प्रयो गस्तु-इयं शौरिविषयकानुरागरसपरिपूर्णहृदयतटाका स्वेदाम्बुनिषिक्तप्रहृष्टस्वक्षेत्राधिकरणकपुलकाङ्करवत्त्वादित्यादिः । आधे पद्यद्वये लिङ्गलिङ्गिनोश्शुद्धत्वं, इह तु रूपकानुप्राणितत्वमिति वैलक्षण्यम् । कविप्रतिभोन्मीलितत्वं तु व्यक्तमेव । इह यत्र लिङ्गलिङ्गिनोस्सत्त्वं तत्र जानन्ति मन्ये शङ्के जाने नूनं अवैमि इत्यादि पदानामनुमितिबोधकत्वं, यत्र तु सादृश्यादिनिमित्तसद्भावः तत्रोत्प्रेक्षाबोधकत्वामति विवेकः ॥
यथावा
जडिमाऽपसर्पति यथा यथा च महती स्फुरत्यशोकश्रीः । शङ्क तथा समीषां साधूनां माधवोऽन्तरुल्लसति ॥ २०२६ ॥