________________
14
अलंकारमाणिहारे
स्थेना स्थैर्येण हेतुना अच्युते लक्ष्मी निरचैषं नेयं जलधरे विद्युत् किंतु श्रीनिवासे श्रीरिति निरणैषमित्यर्थः । पूर्वत्र प्रत्यक्षमात्रं, इह तु विशेषदर्शनजन्यसंशयोत्तरप्रत्यक्षमिति विशेषः ॥
इत्यलङ्कारमणिहारे प्रत्यक्षालंकारसरो
द्वादशोत्तरशततमः
अथानुमानालङ्कारसरः (११३)
अनुमानं लिङ्ग-जन्यलिङ्गिज्ञानमुदाहृतम् ।।
लिङ्गं हेतुः धूमादिः, लिङ्गि साध्यं वह्नयादिः । तथाच हेतुजन्यसाध्यज्ञानमनुमितिरित्यर्थः । एतच्च साधारणमनुमानम् । अस्य च कविप्रतिभोन्मिषितत्वेन सुन्दरतायां काव्यालंकारता॥
यथा
भुवनतलं शीतलयञ् शिशिरमयूखस्स्वकारणं भगवन् । श्रीनिलय मानसं तव करुणाशिशिरं परं प्रकाशयति ॥ २०२३ ॥
प्रकाशनं स्फुटबोधनं तश्चानुमित्यात्मकम् । अत्र च भगघन्मानसशिाशरतारूपलिङ्गिनः शिशिरमयूखकर्तृकभुवनतलशीतलीकरणलक्षणलिङ्गजन्यत्वेनानुमानालंकारः । भगवन्मानसं करुणाशिशिरं भुवनतलशीतलीकरणनिपुणशिशिरमयूखजनिस्थानत्वादिति प्रयोगः॥
यथावा . सामोदबाष्पपूरैः प्रेमोदयसप्रपञ्चरोमाञ्चैः । भ