SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारसरः (१२२) 229 वम् । बहुधा महितं तेऽज स्थानं मे स्यात्कथं नु दुष्पापम् ॥ २३१० ॥ हे हरे ! अव रक्ष। त्वयि विषये स्नेहेन प्रेम्णैव तैलादिरसद्रव्येण लिप्त: दिग्धः चिरात् बहोः कालात् अभवम् । बहुधा महितं ते अजेति छेदः । हे अज! भगवन् बहुधा बहुप्रकारेण महितं पूजितं ते तव स्थानं परमं व्योम कथं नु दुष्प्रापम् एवं त्वयि संजातानुरागस्य सुप्रापमेव स्यादित्यर्थः। अत्रावलिप्तोऽहंकृत इत्यत्र बहुधामहितं तेजस्थनमित्यत्र च अवलिप्ताहंकृतशब्दयोः धामतेजश्शब्दयोश्चैकार्थतया भासमानयोरनयोरुक्तरीत्या पदभङ्गेन भिन्नार्थयोनिबन्धनात्सभङ्गः पुनरुक्तवदाभासः ॥ अभङ्गो यथा वाक्पतिगुरुसौम्यबुधश्लाघ्योऽध्युत भौममङ्गळनिधानम् । भानुसुतमन्दतावहपरमौदार्यश्चकास्ति भवदीयः ॥ २३११ ॥ हे अच्युत! भवदीयः भवदनुग्रहगोचरो मनुजः वाक्पतयः वावदूकाः गुरवः श्रेष्ठाः सौम्यः अरौद्राश्च ये बुधाः विपश्चित: तैः श्लाघ्यः। भूमेरिदं भौमं यत् मङ्गळं कल्याणं तस्य निधानं आधारः। भानुसुतस्य कर्णस्य मन्दतावहं अल्पत्वसंपादकं ततोऽप्यतिशयितमित्यर्थः । तादृशं परमौदार्य यस्य तथोक्तः चकास्ति । अत्र वाक्पतिगुरुशब्दयोः सौम्यबुधशब्दयोः भौममङ्गळशब्दयोः भानुसुतमन्दशब्दयोश्च बृहस्पतिरौहिणेयाङ्गारकशनैश्चररूपैकार्थतावभास उक्तरीत्या अभङ्गपदाश्रय इति ध्येयम् ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy