________________
230
अलङ्कारमणिहारे
शब्दार्थोभयाश्रयो यथा- तपनीयसुवर्णाङ्गां घनजलदसनाभिरुचिरकचबन्धाम् । लक्ष्मी प्रभामुदारां महती श्रीवास वासय कुले मे ॥ २३१२ ॥
तपनीयं काञ्चनमिव सुवर्ण शोभनवर्ण अङ्गं यस्यास्तां 'हिरण्यवर्णाम् ' इति श्रुतेः । घनः सान्द्रः यः जलदः तस्य सनाभिः सगोत्रः तत्सदृश इति यावत् । रुचिरः कचबन्धो यस्यास्तां उदारां वदान्यां 'देवजुष्टामुदाराम्' इति श्रुतेः । 'उदारो दातृमहतोः' इत्यमरः महतीं पूज्यां मह्यते पूज्यत इति व्युत्पत्तः । प्रभा प्रकृष्टा भा दीप्तिर्यस्यास्तां लक्ष्मी हे श्रीनिवास! इदं तन्निवासनौपयिकताभिप्रायगर्भम् । मे कुले संताने गृहे च वासय । अनेन 'श्रियं वासय मे कुले' इति श्रुतिः प्रत्यभिक्षाप्यते । अत्र सुवर्णघनप्रभोदाराशब्दानां पर्यायासहिष्णुतया शब्दाश्रयत्वम् । तपनीयजलदलक्ष्मीमहतीशब्दानां गाङ्गेयमुदिरकमलापूज्यादिपदान्तरसहिष्णुतयाऽर्थाश्रयत्वमित्युभयाश्रितत्वं पुनरुक्तवदाभासस्येति विशेयम् ॥
अथापशब्दवदाभासः निवर्तते साधुभावज्ञानाद्यत्रापशब्दधीः । अपशब्दवदाभासस्सोऽलंकारो निगद्यते ॥
हरिणो यस्य यशोभिर्व्याप्तो लोकः पयोनिधीयति तम् । शरणं व्रजेयमीशं स्वयंभुवं शंभुवं रमाधिभुवम् ॥ २३१३ ॥
यथा