SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 218 अलङ्कारमणिहारे यथावा विन्देमहि. गोविन्दे कन्देऽरिदवस्य भुवनतरुक्रन्दे । मन्देतराममन्दे कान्देड्यरदे रुचिं हृदि मुकुन्दे ॥ २२९५ ॥ अरिदवस्य कन्दे जलदे भुवनतरोः कन्दे मूलभूते 'कन्दस्तु सूरणे सस्यमूले जलधरेऽपिच' इति मेदिनी । अमन्दे पटीयसि कुन्देड्यरदे कुन्दश्लाघ्यदशने मुकुन्दे विषये हृदि रुचिं अभिरर्ति विन्देमहीति योजना ॥ यथावा दाता धियमवदातां दाताखिलसंशयामसुरदाता | पाता श्रियमनिपातां पाता कमलाधरस्य मां पाता ।। २२९६ ॥ अवदातां शुद्धां अतएव दातः छिन्नः अखिलसंशयः यया तां 'दो अवखण्डने ' इति धातोः कर्मणि क्तः ' कृत्तं दातम् ' इत्यमरः । धियं दाता ' ददामि बुद्धियोगं तं ' इति गानात् । अवदाताशब्दो विशुद्धवाची । दातेत्यस्य तृन्नन्तया तद्योगे 'न लोक' इत्यादिना षष्ठीनिषेधः । अनेन तृना भगवतो धीदानताच्छील्यं द्योत्यते । तस्य आ वेस्त्तच्छील' इत्यादिना ताच्छील्ये विधानात् । असुराणां दाता छेत्ता । द्यतेस्तृच् । शैषिकषष्ट्यास्समासः । श्रियं संपदं अनिपातां सत पाता रक्षिता । कमलायाः श्रियः अधरस्य पाता रमाधररसास्वादविधाता भगवान् श्रीनिवास इति विशेषणबलालभ्यते । मां पाता रक्षिष्यति । पाधातोर्लुट् । अत्र पद्यपश्चकेऽपि 6
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy