________________
शब्दालङ्कारसरः (१२२)
217
। एवमेकपादगतभागानां पादान्तरभागापक्षा यमकदा दिमात्रेणोदाहृताः । अथ एकपादगतभागानामन्योन्यापेक्षा भेदा दिमाप्रमुदाह्रियन्ते। यथा
पायादेषाऽपायाजाया शौरेस्सुधाजलधिजा या। छायाया अच्छाया गेयाऽऽस्थानी सुधीभिरविगेया ॥ २२९२ ॥
या अच्छाया: छायायाः कान्तेः आस्थानी सुधीभिः गेया अविगेया केनाप्यनिन्द्या एषा सुधाजलधिजा शौरेः जाया अपायात् पायादिति योजना ॥
यथावा
कल्याणाम्बजकल्यायिता मगाधिपनगाधिपतिदयिता । भाव्याऽमरैश्शुभाऽव्यान्मा तादृशवैभवा जगन्माता ॥ २२९३ ॥ ____ कल्याणमेवाम्बुजं तस्य कल्यायिता प्रभातायमाना 'प्रत्यूषोऽहर्मुखं कल्यम्' इत्यमरः । अमरैः भाव्या ध्येया शुमा कल्याणी ताटशवैभवा अवाङ्मनसगोचरैश्वर्या जगन्माता मृगाधिपनगाधिपतेः शेषाद्रीशस्य दयिता मा श्रीः अव्यात् इति योजना ॥
यथावा
बृन्दारकारिबृन्दास्कन्देशानस्य नतशिवस्कन्दे। विन्दे पदारविन्दे नन्देष्टसुतस्य संभृतानन्दे ॥
बृन्दारकारीणां दैत्यानां वृन्दस्य आस्कन्दे पराभवे ईशानस्य पटीयसः । अन्यत्मुगमम् ।। ALANKARA IV.
17