________________
शब्दालङ्कारसरः (१२२)
219
प्रतिपादमादिमभागस्यान्ते आवृत्तिः अन्तिमे तु आद्यचरणादिमभाग एव तदन्त्यभागे द्वितीयपादाद्यन्तयोश्चावर्त्यते। एवं तृतीयपादाद्यभाग एव तदन्त्यभागे तुरीयपादाद्यन्तयोश्चावर्त्यत इति विशेषः ॥
अथ संकीर्णयमकभेदा दिमात्रमुदाह्रियन्ते। यथाक्रव्यादां तन्वन्तं तन्वन्तं ऋतुभुजश्च धिन्वन्तम् । राममभिवीक्ष्य समितौ स मितौजा रावणोऽपि शमितौजाः ॥ २२९७ ॥ क्रव्यादां क्रव्यादानां तनूनां शरीराणां अन्तं विदधानं ऋतुभुजः देवान् इदं क्रव्यात्प्रतिद्वन्द्वि धिन्वन्तं प्रीणयन्तं च । रामं समिती संगरे अभिवीक्ष्य सः दुराधर्षतया प्रसिद्धो रावणोऽपि मितौजाःमितं ओजः प्रभावो यस्य स तथोक्तः अतएव शमितौजाः शमितं शान्ति प्रापितं ओजः दीप्तिः यस्य तथोक्तः अभवदिति शेषः 'ओजः प्रभावे दीप्तौ च' इत्यमरः । अत्र तन्वन्तमिति प्रथमपादान्त्यभागो द्वितीयपादादिभागे समिताविति तृतीयपादान्त्यभागश्चतुर्थपादादिभागे चावय॑ते । तन्वन्तमित्यस्य मितौजा इत्यस्य च द्वितीयतुरीयपादयारोटत्तिरपीति संकरः ॥
यथावा
तरिताऽस्मि भवाब्धिमहं तरिता त्वदपाङ्गकेन मातरिता। भवितां ननु कथमिव मम भविता निश्श्रेयसं हि संभविता ॥ २२९८ ॥
17*