________________
208
अलङ्कारमणिहारे
. यथावा
स जयति भुजगेशधरो जपावनं सहजपावनं यत्र । यत्र नणां दानतपोजपावनं दिविजपावनं भवति ॥ २२७७ ॥
दानतपोजपानां अवनं गमनं प्राप्तिरित्यर्थः । अवतर्गत्यर्थकाद्भावे ल्युट् । दिविजान्पातीति दिविजपः देवेशः भगवान् तस्य अवनं प्रीणनं भवति । प्रीणनार्थकावतेः करणे ल्युट् । स्पष्टमन्यत् । अत्र द्वितीयपादे वर्णान्तरव्यवधानेनावृत्तस्य जपावनमित्यक्षरसमुदायस्य तुरीयपादे तथाऽऽवृत्तिरिति विशेषः ॥
अतिबहुलसत्तमो जायतेऽहिभूभत्पते मनो यस्य । बत बहुलसत्तमोजायते हि भूभृत्स तव दृष्टया ॥ २२७८ ॥
हे अहिभूभृत्पते! यस्य पुंसः मनः अतिबहुलं सत् विद्यमानं तमः यस्य तथोक्तं जायते त्वत्कटाक्षप्रसरात्पूर्वमतिमात्रतामसं भवतीति भावः । स: मनुज: तव दृष्टया 'यत्सत्त्वं स हरिदेवः' इति सत्त्वमयतयोक्तस्य तव कटाक्षेणेति भावः । बहुला सत्ता साधुता प्रशस्तता वा यस्मिस्तत्तथोक्तं यथातथा । यद्वा बह्वी लसतो भावः लसत्ता भगवत्संश्लषः यस्मिंस्तद्यथातथा हि भूभृदिति छेदः । भूभृत् राजा सन् ओजायते। हिरवधारणे। सत्त्वगुणोन्मेषेण दीप्यते । 'तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्' इति सत्त्वगुणस्य प्रकाशकत्वं हि गीयते। अत्र पूर्वार्धमध्यभाग उत्तरार्धमध्यभागे आवर्त्यते । विपुलानामार्यावृत्तभेदोऽयमिति च विशेषः ॥