________________
शब्दालङ्कारसरः (१२२)
207
शरणेति रणः ध्वनिः रक्षकेत्याक्रन्दनमिति यावत् 'रणः कणे' इति, 'रवे रणः' इति च संकीर्णनानार्थवर्गयोरमरः । 'रण: कोणे क्वणे पुंसि समरे पुनपुंसकम्' इति मेदिनी च। तस्य । श्रवणक्षणमेव चरणयोः रणन्तौ ध्वनन्तो कटको वलयो यस्मिन्कमणि तद्यथास्यात्तथा अतिजवात् एत्य ग्राहग्रस्तगजेन्द्रसविधमिति भावः । रणरणकः उत्तरोत्तरतरङ्गित भयविसंष्ठलत्वं निर्गमितः रणरणको यस्य सः नीरणरणकः तथोक्तः कृतः नीरणरणकितः नीरणरणकशब्दात् णिजन्तात्कर्मणि क्तः विचकितः नकाक्रान्ततया विशेषतः प्रतिहतः वारणः गजेन्द्रो येन तस्य संबुद्धिः नीरणरणकितविचकितवारण! हे रणधुर्य समरधौरेय हे देव मम शरणं भव । गजेन्द्रस्येव ममापि भयचकिततां निर्धूय परित्राणं विदध्या इति भावः । अत्रापि पूर्ववदेव रणरणेति मध्यभागयमकं पादचतुष्टये ॥
श्रीवासादेवासावासाद्या सकलसंपदखिलजनैः। का वा सा याऽवासादयितुं संपत्ततो न शक्येत ॥ २२७६ ॥ ___असौ जगदानन्दसंदायितया दृश्यमाना अखिलसंपत् श्रीवासात् भगवत एव सकाशात् सकलजनैः आसाद्या प्राप्या। का वा सा या अवासादयितुमिति छेदः। ततः तस्मात् श्रीनिवासात् या संपत् अवासादयितुं अवाप्तुं स्वार्थिको णिच् यद्वा ततः तेन श्रिनिवासेन आसादयितुं श्रितान्प्रापयितुं न शक्येत । सा तथाविधा संपत् का वा न कापि तादृशी संपदस्तीति भावः । अत्राद्यपादे एकवर्गान्तरव्यवहितवासारूपवर्णद्वयावृत्तिलक्षणमध्यभाग एव तृतीयपादे तथाऽऽवयंत इति प्रागुदाहृताव्यवहितवर्णद्वयावृत्तिरूपमध्ययमकाद्विच्छित्तिविशेषः ॥