________________
शब्दालङ्कारसरः (१२२)
201
कृतविधिनाभीकमलं हृदयान्तरकृतनिकेतनाभीकमलम् । ब्रजललनाभीकमलंकुरुतां हृद्ब्रह्म तदधुनाऽभीकमलम् ॥ २२६७ ॥
कृतः सृष्टः विधिः ब्रह्मा येन तथोक्तं नाभकिमलं यस्य तत् । हृदयान्तरे वक्षोऽन्तराळे कृतनिकेतना रचितमन्दिरा अभीः अवि द्यमाना भीर्यस्यास्सेति पञ्चमीबहुव्रीहिः । आश्रितभीतिहारिणी । षष्ठीबहुव्रीहिर्वा । परिपूर्णापराधेष्वाश्रितयुधेषु कलुषितमतेर्दण्डधराल्लोकेश्वराद्भर्तुरपि तत्परित्राणे 'किमेवं निर्दोष: क इह जगति' इति बोधयन्ती न बिभेतीति भावः । अभीः कमला यस्य तत् तथोक्तम । आभ्यां परत्वमुक्तम् । ब्रजललनानां गोपमहिलानां अभीकं कामुक 'कम्रः कामयिताऽभीकः' इत्यमरः 'अनुकाभिकाभीकः कमिते' त्यभेः कमितेत्यर्थे कन्प्रत्ययो निपातितः । अनेन सौलभ्यमुक्तम् । ब्रह्म उक्तविधं परं ब्रह्म हृत् मम चित्तं कर्म अलंकुरुतां परिष्कुरुताम् । तत् मनः कर्तृ । अधुना अलं पर्याप्तं अभीकं निर्भयं भवति भगवति परस्मिन् ब्रह्मणि हृद. यमधिवसति कुतो मम भयवार्तेति भावः । ‘यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तंऽनिलयनेऽभयं प्रतिष्ठा विन्दते अथ सोऽभयं गतो भवति' इति श्रुतेः । अत्र प्रथमपादान्त्यभागगतसस्वरव्यञ्जनपञ्चकस्य तदितरपादान्त्यभोगवावृत्तिरिति विशेषः ॥
श्रयसि सदा सहितत्त्वं श्रिया यदेतत्पुरा सदास हि तत्त्वम् । अयसि स दासहितत्त्वं त्वामेवं वेद यः सदा स हि तत्त्वम् ॥ २२६८ ॥
हे भगवन् ! सदा श्रिया सहितत्त्वं श्रयसि । श्रिया नित्ययोगवानिति श्रीमच्छब्दार्थ उक्तः । 'आनीदवातग् स्वधया तदेकम्' ALANKARA IV.
16