________________
200
अलङ्कारमणिहारे
हे हरे! 'हरिहरति पापानि' इत्येतदत्र स्मर्तव्यम् । अघं दुःखं व्यसनं वा नुदति क्षिपतीत्यघनुदः। तस्य संबुद्धिः। ते तव चरणे मम दुरितं हरेते। यदहः यस्मिन्नहनि अत्यन्त संयोगे द्वितीया। दहरे हृदयपुण्डरीके ते पूर्वोक्त एते तव चरणे न ध्याते तदहः व्यर्थ निरर्थकम् । अत्र ‘यन्मुहूर्त क्षणं वाजपे' ाते वचनार्थस्स्मर्तव्यः॥
यथावा
स भवान्यदि नो दयते जन्तोनिं तदाऽस्य नोदयते । कर्माणि न नोदयते तत्त्वां ध्यातुं रमा. विनोद यते ॥ २२६६ ॥
विनोदयतीति विनोदः रमायाः विनोदः रमाविनोदः तस्य संधुद्धिः । रमायाः विनोद विनोदहेतो इति वा हेतुहेतुमतोरैक्यम् । हे श्रीनिवासेत्यथः । स भवान् जन्तोः प्राणिनः नो दयते यदि दयतेर्लट् 'अधीगर्थदय' हाते कर्मणश्शेषत्वविवक्षया षष्ठी। तदा अस्य जन्तोः ज्ञानं निश्श्रेयसौपयिकमिति भावः । नोदयते नोदति। अयतेर्लट् । स भवान् अस्येत्येतच्चानुषज्यते । अस्य जन्तोः कर्माणि पापरूपाणि न नोदयाते न निवर्तयते । नुदतर्णिजन्ताल्लट् । यद्वा अयमित्यध्याहारः । अयं जन्तुः कर्माणि न नोदयते इति योजना । पापकर्मणः क्षयाभाव ज्ञानानुदयादिति भावः । 'शानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः' इति हि स्मृतिः । तत् तस्मात् उक्ताद्धेतोः त्वां ध्यातुं यते यत्न करोमि । यततेर्लडुत्तमैकवचनम् । पापक्षयपूर्वकज्ञानोदयनिदानत्वाद्भवत्कृपायास्तसंपादनाय त्वामुपासितुं यत्नवान्भवामीति निर्गळितोऽर्थः ॥