________________
184
अलङ्कारमणिहारे
इत्यादिप्रमाणान्यनुसंधेयानि । इमे श्लोकावृत्त्यर्धावृत्तियमके महायमकं समुद्गकमिति नामभ्यां रुद्रटादिभिर्व्यवाहियेताम् । यथोच्यते
'अर्ध पुनरावृत्तं जनयति यमकं समुद्नकं नाम ।
श्लोकस्तु महायमकम्' इति ॥ यथावा
लक्ष्मीश्चकास्ति भवतो नवतोयदसारभासितादवितः। लक्ष्मीश्च काऽस्ति भवतोऽनवतो यदसारशासितादवितः ॥ २२४७ ।। . . लक्ष्मीः चकास्ति भवतः नवतोयदसारभासितात् अवितः, इति पूर्वार्धे । उत्तरार्धे तु लक्ष्मीः च का अस्ति भवतः अनवतः यत् असारभासितात् अवितः इति च्छेदः । हे अवितः अवतेः रक्षणार्थकात्तृन् । हे रक्षक! . न हि पालनसामथर्थमृते सर्वेश्वरं हरिम् । इत्युक्तेः । नवतोयदाः प्रावृषेण्यवारिदाः तेषु सार: श्रेष्ठः तस्य भा प्रभेव असितात् श्यामलात् । यद्वा नवतोयदस्य सारभा श्रेष्ठदीप्तिः सेव असितः तस्मात् । तस्या अप्यसितादिति वा । भवतः त्वत्तः लक्ष्मीः चकास्ति । नीलतोयदमध्यस्थविद्युदिव प्राप्तपरभागतया भासत इति भाव । यद्वा भवतस्सकाशात् लक्ष्मीः संपत् जनानामिति शेषः । चकास्ति त्वत्त एव जगतां समृद्धिलाभ इति भावः । अनवतः आपत्सु अरक्षकात् संहर्तृतया अप्रीणयतश्च भवतः शर्वात् लक्षश्वी श्रीरापे संपदिति वार्ताऽपीति भावः । का अस्ति जनानां तस्मात्काऽपि संपन्न सिध्यतीति भावः । कुत इत्यत आह-यदिात । यत् यस्मात्करणात् अयमित्यध्याहारः,