________________
183
शब्दालङ्कारसर: (१२२ )
अत्युत्तमं वद ब्रूहि । अञ्जनगिरावाविर्भूतं भगवन्तं विधातृजनिनिदानभूतनाभिकमलतया अखिलजगत्कारण परं ब्रह्मेति वदेति जनान् प्रत्यावेदनम् ॥
यथावा
प्रपदनतस्तव नान्येऽवाकलयन्ते मुदं ननूपा - याः । प्रपदननस्तवनान्येवाकलयन्ते मुदं न नूपायाः ।। २२४६ ॥
प्रपदनतः तव न अन्ये अवाकलयन्ते मुदं ननु उपायाः प्रपदनतः स्तवनानि एव अकलयं ते मुदं न नु उपायाः, इति पदच्छेदः । नन्वित्यामन्त्रेण । ननु भगवन् ! प्रपदनतः शरणवरणात् आद्यादित्वात्सार्वविभक्तिकस्तसिः । अन्ये इतरे उपायाः यज्ञदानतपोऽनशनादिसाधनानि तव मुदं प्रीतिं नावाकलयन्ते नावाकल्पयन्ते । अवाङ्पूर्व कात्कलयतेर्लट् । ते तव प्रपदे पादाग्रे ' पादाग्रं प्रपदम्' इत्यमरः । नतः शरणागतस्सन् स्तवनान्येव स्तुतीरेव अकलयं अरचयम् । कलयतेर्लङुत्तमैकवचनम् । मुदं प्रीति, तेन स्तवनेनेति भावः । नुशब्दः पृच्छायाम् । 'नु पृच्छायां विकल्पे च' इत्यमरः । नोपायाः नु नोपागच्छः किम् ? उपाङपूर्वकादुपपूर्वकाद्वा यातेर्लम्मध्यमः । उपागत एवेति निर्धारयामि । स्वप्रिय इति हि तव नामेति भावः । द्वितीयार्थे प्रपदनतः स्तवनानत्यित्र 'खर्परे शरि वा विसर्गलोपो वक्तव्यः' इति विसर्गलोपः । अकलयन्ते इत्यत्र वा पदान्तस्य इति वैकल्पिकोऽनुस्वारस्य परसवर्णः । अत्र—
C
इति वाग्भिः प्रशस्ताभिरयोनिर्विष्णुरीडितः । वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥