________________
शब्दालङ्कारसरः (१२२)
185
असारं निस्सारं अश्रेष्ठं वा भसितमेव भासितं वायसराक्षसादिवत् स्वार्थिकोऽण् । तस्मात् आवितः प्रीतः तृप्तो वा भवति । अवतेः प्रीत्यर्थकात्तृप्तयर्थकाद्वा कर्तरि क्तः। रक्षणासमर्थात् भस्ममात्रसमृद्धिमत्तया तृप्तादस्माल्लक्ष्मीलाभस्सर्वरक्षकाच्छ्रीनिवासाद्भगवत इव जनानां कथं निष्पद्यतेति भावः ॥ . यथावा
श्रीशोभितस्स दासं पदं श्रितं बहुकरोऽतिहीनमपि । श्रीशोऽभितस्सदा संपदं श्रितं बह करोऽति हीनमपि ॥ २२४८ ॥
श्रीशोभितः सः दासं पदं श्रितं बहुकर: अतिहीनं अपि श्रीशः अभितः सदा संपदं श्रितं बहु करोति हि इन अपि इति पदच्छेदः । श्रिया षाड्गुण्यसंपदा शोभित: । बहवः कराः हस्ताः यस्य स तथोक्तः । स्वसंपदनुगुणपुरुषार्थचतुष्टयदानापयिक - पाणिचतुष्टय इति भावः । सः सर्वेश्वरत्वेन सकलोपनिषत्प्रसिद्धः श्रीशः भगवान् श्रीनिवासः अतिहीनमपि अतिदुर्गतमपीति यावत् । अपिर्विरोधे। पदं स्वचरणं श्रितं शरणं गतं दासं शेषभूतं चेतनं अभितः समन्ततः सर्वस्मिन् देशे इत्यर्थः । सदा सर्वस्मिन् काले बहु विपुलं यथास्यात्तथा संपदं सपत्ति भिंत प्राप्तं करोति । नैतावदेव किंतु इन मपि प्रभुमपि करोति । 'इनस्सूर्थे प्रभौ' इत्यमरः। अत्र अपिस्समुच्चये । हिः प्रसिद्धौ॥
यथावा
निजधानि देवनेता पवियुक्तश्श्रीभवत्यनुग्रहतः। निजधानि देवने तापवियुक्तंश्रीर्भवत्यनुग्रहतः॥ २२४९ ॥
ALANKARA IV.