________________
172
अलेकारमणिहारे
तवर्णगतो रसविषयो व्यापारः रचनाविशेष इति यावत् । तदाश्रितोऽनुप्रास इत्याहुः ॥
छेकानुप्रासःछेकानुप्रासमाहुर्यत्साम्यं व्यञ्जनयोस्सकृत् ॥
यद्वयञ्जनयोस्सकृत्साम्यं तं छेकानुप्रासमाहुः यथावा
सन्ततमन्तःकरणं दिव्यं भव्यं भुजङ्गगिरिसङ्गि। धाम श्यामममेयं विन्दतु कन्दर्पदर्पहररूपम् ॥ - अत्र पूर्वार्धे नकारतकारयोः ङकारगकारयोः वकारयकारयोः उत्तरार्धे नकारदकारयोः रेफपकारयोश्च सकत्साम्यम् । इदं च___ततोऽरुणपरिस्पन्दमन्दीकृतवपुश्शशी।
दभ्रे कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥ इतिच्छेकानुप्रासस्योदाहरणदानेन व्यवधानसहिष्णुव्यञ्जनद्वयसकृत्साम्यस्य छकानुप्रासतामभ्युपगच्छतां प्रकाशकारादीनां मतेन । विद्यानाथादीनां मते तु इदं लक्षणम्द्वयोर्द्वयोर्व्यञ्जनयोर्युग्मयोर्या निरन्तरा । आवृत्तिः क्रियते सोऽयं छेकानुप्रास ईर्यते ॥
द्वयोर्द्वयोर्व्यञ्जनयोर्व्यञ्जनान्तराव्यवधानेनावृत्तिश्छेकानुप्रास इत्यर्थः । तेनाज्वर्णव्यवधानेऽपि न. दोषः ॥ .
यथावा
देवादेव श्रेयो रामारामस्ववक्षसो ज्यायः।ध्येयो हि योऽहिभूमीधरधरणीबालिकालिकाभरणम् ॥