________________
शब्दालङ्कारसरः (१२२)
171
अथ शब्दालंकारसरः (१२२) इत्यर्थालंकृतयो यथामति निरूपिताः । निरूप्यन्तेऽथ दिमात्रं शब्दालंकृतयः क्रमात् ।।
यद्यपि प्रकाशकारादिभिरभ्यर्हितशब्दगत्वेनाभ्यर्हिता इति । शब्दालंकारा अर्थालंकारेभ्य: पूर्व निरूपिताः । काव्यानुशासनकारस्तु-"अलंकाराः खलु द्विविधाः शब्दालंकारा अर्थालंकाराश्च, तत्रतावदर्थमधिकृत्य शब्दः प्रवर्तते, अतः प्रथममर्थालंकारा एवोदाह्रियन्ते' इत्याह । अतएव दण्डिप्रभृतिभिः अर्थालंकाराः प्रकर्षातिशयादादौ शब्दालंकारास्तु जघन्यतयाऽनन्तरं च निरूपिताः। अतएवास्माभिः काव्यानुशासनकृदादिमतावलम्बनेमार्थालंकारनिरूपणानन्तरमेव शब्दालंकारा निरूप्यन्ते ॥
वर्णानुप्रास:साम्यं व्यञ्जनमात्रस्य वर्णानुप्रास ईरितः॥
स्वरवैसादृश्येऽपि व्यञ्जनानां सादृश्यं यत् स वर्णानुप्रासः। व्यञ्जनसाम्यं यमकेऽप्यस्तीति तद्वारणाय मात्रपदम् । तेन स्वरव्यञ्जनसादृश्य एव यमकत्वस्य वक्ष्यमाणत्वान्न तत्रातिव्याप्तिः । स्वरव्यञ्जनसाम्यरूपलाटानुप्रासाव्याप्तिवारणाय वर्णपदं लक्ष्ये विशेषितम् । तथाचं लाटानुप्रासस्य पदानुप्रासतया वर्णानुप्रासता. विरहादलक्ष्यत्वेन न तत्राव्याप्तिर्दोषायेत्याहुः । रसाद्यनुगतः प्रकृष्टो न्यासोऽनुप्रासः । तदुक्तम्-'प्रकृष्टो वर्णविन्यासो रसाधनुगतो हि यः । सोऽनुप्रासः' इति ॥ द्विधा भवेदयं छेकवृत्त्यनुप्रासभेदतः॥
अयं वर्णानुप्रासश्च छेकानुप्रासो वृत्त्यनुप्रासश्चेति द्विविधः । छेकाः विदग्धाः तदभिमतोऽनुप्रासश्छेकानुप्रासः। वृत्तिर्नाम निय___ALANKARA IV. .
14*