________________
170
अलङ्कारमणिहारे
प्रशंसालंकारस्य प्रस्तुताङ्कुरालंकारस्य वा श्रीमत्सम्पत्समृद्धिवर्णनात्मकोदात्तालंकारेण सहैकवाचकानुप्रवेशसंकरः । वाचकशब्दस्य प्रतिपादकमात्रपरतया व्यञ्जकसाधारण्यस्य दीक्षितैरेवोक्तत्वात् । तथाचोदात्तातिशयोक्तयोः हेत्वत्युक्तयोः व्यङ्गयोदात्ताप्रस्तुतप्रशंसाप्रस्तुतारान्यतरयोरित्येतेषां त्रयाणामेकवाचकानुप्रवेशसंकराणां समप्राधान्यसंकरः । न ह्येतेषामन्योन्यमितरत्राङ्गत्वमस्ति । ननु संपत्समृद्धिवर्णनात्मकस्योदात्तस्यासंबन्धे संबन्धवर्णनरूपातिशयोक्तेश्चैकवाचकानुप्रवेशस्य हेत्वलंकारसौन्दर्याधायकत्वेनेतराङ्गतायां जागरूकायां कथं त्रयाणां समप्राधान्यसंकर इति वाच्यं, उदात्तालङ्कारस्वैव संपत्समृद्धिवर्णनात्मना हेत्वलंकारचारुताधायकतया अङ्गता। न तत्रातिशयोक्तिसंकरस्याप्युपयोग इति त्रयाणां समप्राधान्यस्योचेतत्वात् । एवमत्र श्लोके चतुर्णामपि संकराणां यथायोग्यं संकरः । तथाहि-उदात्त तद्गुणयोरङ्गाङ्गिभावसंकरस्य भ्रान्तिमदुदात्तयोरङ्गाङ्गिभावसंकरस्य चाङ्गाङ्गिभावेन संकरः । तथा भ्रान्तिमदुदात्तयोरङ्गाङ्गिभावसंकरस्य उदात्ताङ्गकहेत्वलंकारादिसंदेहसंकरस्य चाङ्गाङ्गिभावसंकर इति कुशाग्रीयमतिभिरनुसंधेयम् । एवंजातीयकास्सकराः प्रागुपदर्शितेष्वर्थालंकारोदाहरणेषु उपदर्शयिष्यमाणेषु शब्दालंकारोदाहरणेषु च संभवन्तो मनीषिभिरलंकारशास्त्रानष्णातस्स्वयमवाहन्त इति विस्तरभयाद्विश्रम्यते । ग्रन्थान्ते श्रीरिति निर्देशोऽत्यन्तमङ्गलार्थ इति सर्व समञ्जसम् ॥
इत्यलङ्कारमणिहारे सङ्करालङ्कारसर एकविंशत्युत्तरशततमः.