________________
संकरसर: (१२१)
169
आतताः ये हरिमणयः फलकाकारा इति भावः । तेषां घृणिभिः किरणैः मसृणान् स्निग्धान् श्यामलानिति यावत् । वज्रान् हीरमणीन् बाला: क्रीडन्तो माणवकाः जम्ब्वा विकाराः जाम्बवानि जम्बूफलानीति धिया भ्रान्त्या 'जम्ब्वा वा' इति वैकारिकोऽण् । “फले जम्ब्वा जम्बू स्त्री जम्बु जाम्बवम्' इत्यमरः । उञ्छन्ति एकैकश आददते इति यत् सा विधेयकटाक्षशिब्दकटाक्षेण स्त्रीलिङ्गता। रमायाः श्रीनिवासदिव्यमहिप्याः कटाक्षश्रीः कटाक्षलक्ष्मीरेव । अत्र तावत् श्रीमतां संपत्तिसमृद्धिवर्णनमुदात्तालंकारः। तन्मूलको हरिमणिवृणिमसृणानित्यत्र तद्गणालंकारः, तत्रैव वक्ष्यमाणभ्रान्युपपादकपदार्थहेतुककाव्यलिङ्गालंकारश्चेति तयोरेकवाचकानुप्रवेशसंकरः । तन्मूलको जाम्बवाधयेत्यत्र भ्रान्तिमदलंकारः । ताभ्यां चादातालंकारस्सुन्दरतां लम्भित इति तयोश्च तस्य चाङ्गाङ्गिभावेन संकरः । एवं श्रीमद्भवनसमृद्धहेतुमतो रमाकटाक्षश्रियो हेतोश्चाभेदवर्णनं हेत्वलंकारः। स च रमाकटाक्षश्रियो निरवधिकोत्कर्षपर्यवसायी। एतावन्मात्रे चेत्संरम्भः कवेः तदा उपपादितोदात्तालंकारोपस्कृते हेत्वलंकारे विश्रमः । वर्णनीयाया रमायाः कटाक्षलक्ष्मीः कीदशीति प्रश्नोत्तरतया निरवधिकैश्वर्यविश्राणनरूपाप्रस्तुतकार्यमुखेन तदीयकटाक्षलक्ष्मीप्रकर्षप्रशंसायां चेत्संरम्भः तदा कार्यनिबन्धनाप्रस्तुतप्रशंसालंकारे विश्रमः । कार्यस्यापि वर्णनीयतयाऽभिसंधौ तु प्रस्तुताङ्करे विश्रान्तिः । अत्र विशेषानध्यवसायात्संदेहसंकरः । किंच श्रीमद्भवनवैभववर्णनस्यासंबन्धे संबन्धकथनरूपतया अतिशयोक्तेरुदात्तालंकारेण सहकवाचकानुप्रवेशसंकरः । निरवधिकोदार्योत्कर्षपर्यवसायिनो हेत्वलंकारस्याद्भुतातथ्यौदार्यवर्णनात्मिकयाऽत्युक्तया सहैकवाचकानुप्रवेशसंकरः । तन्मूलकस्याप्रस्तुतALANKARA IV.
14