________________
सङ्करसरः (१२१)
147
यथावा
सकलजगदधिपति त्वां वृषगिरिपतिरिति वदन्तु नाम जनाः। विष्णुस्स पर्वतानामधिपतिरिति कथमनादिवाग्वते ॥ २२०५ ॥
जनाः पामरा इत्यर्थः । ‘जनो लोके महर्लोकात्परलोकेऽपि पामरे' इति विश्वः। अत्र निरङ्कशनिखिलजगदैश्वर्यस्य भगवतश्श्रीनिवासस्य यत्किश्चित्परिच्छन्नशैलमात्राधीश्वरत्वं श्रुत्या प्रतिपादितमप्यनुपादेयमेवोति तत्प्रतिक्षेपाय 'विष्णुः पर्वतानामधिपतिः' इति श्रुतेरुपन्यासाच्छन्दप्रमाणालंकार: पूर्वोत्तरार्धप्रतिपाद्यसमविषमालंकाराभ्यामेकवाचकानुप्रविष्ट ॥
विपुलभवाम्भोनिधिशुक्तिरोहिताश्चोहृतास्ततः काले। मुक्तत्वाद्दिव्यगुणास्सन्मणयोऽच्युत भवन्ति ते ग्रसराः ॥ २२०६ ॥
हे अच्युत! विपुल: यो भवाम्भोनिधिः संसारसागरः तस्य शुकू तत्सम्बन्धिनी शोकः इदमुपलक्षणमशनायापिपासायूमीणाम् । तया तिरोहिताः आच्छादितस्वाभाविकस्वस्वरूपा इति यावत् । अन्यत्र विपुलं यथा तथा भवः विद्यमानः यः अम्भो. निधिः तस्य याः शुक्तयः मुक्तास्फटाः तासु रोहिताः स्वातिवर्षजलबिन्दुभिः प्रादुर्भाविता इत्यर्थः । चशब्दो भिन्नक्रमः । ततः काल 'विधिपरिणतिभेदाद्वीक्षितस्तेन काले' इत्युक्तप्रक्रियया याहच्छिकादिसुकृतपरिपाकावसरे । अन्यत्र
नद्यां तत्र स्वातिगे शुक्तिस्था वर्षबिन्दवः । षड्भिर्मासैर्घनीभूता जायन्त शुद्धमौक्तिकाः ॥