________________
146
अलङ्कारमाणहारे
हे फणिगिरीन्दो! विशदमयूखः स्वच्छांशुरपि त्वत्पदनखरुचेः मोषणे चौर्य कृतरुचिः प्ररूढाभिलाषः अतएव अपशदतया जाल्मतया 'निहीनोऽपशदो जाल्मः' इत्यमरः । परं विमयूख: विगळिततेजाः 'मयूस्खस्त्विट्करज्वालासु' इत्यमरः । भवति। पक्षे विशदमयूखशब्दः अपशदतया अपगतौ शदौ शकारदकारौ यस्य स तथोक्तः तस्य भावस्तत्ता तया विमयूख इति निष्पद्यत इत्यर्थः । अत्र विरोधाभासविषमातिशयोक्तीनामेकवाचकानुप्रविष्टता ॥
यथावा
भारतरसाऽखिलाऽच्युत भावत्कैः क्वाप्यवस्थितैविमला। प्रतिलोमवर्णागपि ऋ: रात्रीव सारतरभैव ॥ २२०४॥
हे अच्युत! अखिलाऽपि भारतरसा भारतवर्षभूमिः प्रतिलोमवर्ण ‘ब्राह्मण्यां क्षत्रियाजातः' इत्यायुक्तविधं संकीर्णवर्ण भजतीति तथोक्ताऽपि तमःप्रचुरतया नीलवर्णभागपीति च । क्काप्यवस्थितैरपि 'क्वचिक्त्वचिन्महाभाग' इत्युक्तरीत्या काचक्त्वचिदवस्थितैरपीत्यर्थः । भावत्कैः भवदीयैः ऋः नक्षत्रैः रात्रीव विमला निर्दोषा स्वच्छा च सती सारतरा श्रेष्ठतरा भा दीप्तिः यस्यास्सा तथोकैव भवात । पक्षे अखिला समग्रवर्णा भारत रसा भारतरसेति शब्दव्यक्तिः प्रतिलोमवर्णभागपि प्रतिकूला क्षरा सती सारतरभेत्येव निष्पद्यत इत्यर्थः । अत्र प्रतिलोमवर्णभाक्त्वरूपप्रतिबन्धकसद्भावेऽपि सारतरभात्वरूपकार्योदयलक्षणविभावनाविशेषस्य उपमायाश्च एकवाचकानुप्रवेशः ॥