________________
142
अलङ्कारमणिहारे
यथावाविपरीतहक्सनातन नतनासत्याह चेद्रवीतु त्वाम् । कस्सुदृगनवधिककृपोनसमाचष्टेऽच्युतावनाटं त्वाम् ॥ २१९९ ॥
हे सनातन पुराणपुरुष! विपरीतहक् यथावस्थितविरुद्धग्राही पुमान् त्वां सामुद्रिकोक्तमहापुरुषलक्षणसर्वस्वशालिनमिति भावः। नता निम्ना नासा यस्य स नतनासः तस्य संबुद्धिः हे नतनास इत्याहचेत् ब्रवीतु कामं ब्रूतां कोऽस्य निरोद्धा न हि विपरीतदृशस्सुदृम्भिर्यथावदुक्तमप्यर्थमुपाददत इति भावः । पक्षे यवन इव प्रतिलोमवर्णदर्शा सनातनेति शब्दं नतनासेति ब्रतामित्यर्थश्चमत्कारातिशयाय । सुदृक् सम्यग्द्रष्टा कः पुमान् हे निरवधिककृप हे अच्चुत! उन्नसं 'शुचिस्मितं कोमलगण्डमुन्नसम्' इत्युक्तरीत्या उन्नतनासिकं त्वां अवनाटं नतनासिकं आचष्टे । न कश्चिदपि सुदृक्तथा ब्रूयादिति भावः। 'अवात्कुटारच्च' इति पूर्वसूत्रात् अनुवृत्तःदवशब्दात् 'नते नासिकायास्संज्ञायां टीटच् नाटच् भ्रटचः' हात नाटच्प्रत्ययः । नासिकाया नतं अवनाटं तद्योगानासिका अवनाटा। पुरुषोऽवनाटः । 'अवटोटोऽवनाटश्चावभ्रटो नतनासिके' इत्यमरः । यद्वा नासयति न स्थापयतीति नासः आर्णिजन्तात् पचाद्यच् नशब्देन समासः । नतानां नासः नतनासः प्रणतजननिश्शेषयितेत्यर्थः । तस्य संबुद्धिः हे नतनास! इति ब्रवीतु अनधिककृपया उन्न: आर्द्रः तस्य संबुद्धिः हे अनवधिककृपोन ! 'समुन्नमुत्तं च' इत्यमरः । हे अच्युत त्वां एवं परमकारुणिकमिति भाव । अवनाटयतीत्यवनाटः तथोक्तं 'नट अवस्कन्दने' चुरादिः । अवस्कन्दनं हिंसनं तस्मात् पचाद्यच् । समाचष्टे