________________
संकरसरः (१२१)
141
सीनो सदासीत्तदानाम्' इति श्रुतिशकलमात्रापातप्रतीयमानार्थपरितुष्टतया सर्वशंमन्योऽनृजुधीरेवं ब्रूताम्, तत्स्वभावस्थितिरेव तादृशीति भावः । आसति तिङन्तप्रतिरूपकमव्ययम् । पक्षे सदातनेति वर्णानुपूर्वविपरीतं पश्यतो जनस्य नतदासेति भासत इति प्रतीपदृशस्तथोक्तिर्भवतुनामेत्यर्थः । तं एवं विरुद्धार्थद्रष्टारं विपरीतानुपूर्वीदर्शिनं च पुरुषं तु आहत्य संबोधयामहे मैवं वादीरित सान्त्वयित्वा सम्यक्पश्येत्यावेदयामहे शास्त्रार्थम् ॥
अज्ञानाय तु यो ज्ञानं दद्याद्धर्मोपदेशनम् ।
कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत्फलम् ॥ इत्यज्ञाय ज्ञानदानस्य महाफलत्वश्रवणादिति भावः । तेन ताहशप्रतीपवचनेन का हानिः? एवं बोधितोऽप्ययं प्रतीपवादितां न त्यजतिचेत्तद्वचनेन तव न काऽपि हानिर्भवेत् प्रत्युत तस्यैवेति भावः । यद्वा तं सदातनत्वेन प्रसिद्धं अत एव पुरुषं 'पूर्वमेवाहमिहासमिति तत्पुरुषस्य पुरुषत्वम्' इति निर्वचनगोचरं कालापरिच्छिन्नमित्यर्थः । इदमुपलक्षणं देशवस्तुपरिच्छेदराहित्यस्यापि । त्वा आत्यति छेदः । त्वा त्वां तेन नतदासेत्यनेन संबोधयामहे । नताः प्रणताः दासाः ‘दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः' इत्याधुकरीत्या दासभूताः ब्रह्मेशानादयः यस्येति विगृह्य संबुध्यन्तेन तेन पदेन आमन्त्रयामहे इति भावः । तेनेत्यावर्त्यते । तेन प्रतीपवचनेन का हानिः तव न काऽपि हानिः प्रत्युत सर्वेश्वरत्वमेवोक्तं स्यादिति भावः । अत्र प्रतीपदर्शिकथितवचनस्यार्थान्तरपारकल्पनलक्षणवक्रोक्तयलंकारेण तादृशवचनरूपदोषेण हानिरूपदोषानुदयवर्णनात्मकोल्लासालंकार एकवाचकांनुप्राविष्टतया संकर्णिः ।