________________
140
अलंकारमणिहारे
यथावा-
त्वत्पदनतेषु येषां गौरवमाभाति गरतयैव सदा । विन्दन्ते ते मन्दा मुकुन्द तद्वैौरवं पदं नि
यतम् ॥ २१९७॥
हे मुकुन्द ! त्वत्पदनतेषु त्वच्चरणशरणकृत्सु विषये गौरवं बहुमतिः येषां जनानां गरतयैव विषत्वेनैव आभाति द्वेष्यं भवतीति यावत् । मन्दाः अभाग्याः ते जनाः रौरवं नरकविशेषरूपं तत् दुरन्तदुरितसन्ततिफलभूत दुःख सहस्रानुभावकं पदं स्थानं विन्दन्ते । भगवत्पदन्यस्तभरमहाभागवतावमन्तारो महान्तमेव निरयं प्रपद्यन्त इति निर्गळितोऽर्थः । अन्यत्र येषां जनानां गौरवमिति पदं गरतया गस्य गकारस्य रतया रेफवर्णत्वेन आभाति ते अमन्दा इति छेदः कुशला इत्यर्थः । ते जनाः तत्पदं गौरवपदं रौरवमिति जानन्तीति यावत् । उक्तरीत्या गौरवशब्दस्य रौरवत्वावाप्तेरिति भावः । अत्र वाक्यार्थहेतुकं काव्यलिङ्गं प्रकृता प्रकृतश्लेषः भागवतमहिमगुणेन तदनादरजन्यदोषोदयलक्षण उल्लासालंकारी कवाचकानुप्रविष्टानि ॥
यथावा
भगवन् सदातन त्वां न तदासेति प्रतीपम्बूताम् | संबोधयामहे तं पुरुषं त्वादृत्य तेन का हानिः ॥ २१९८ ॥
हे भगवन हे सदातन ! पुराणपुरुषेत्यर्थः । प्रतीपडक् शास्त्रसिद्धार्थप्रत्यनीकदर्शी जनः त्वां सदातनमिति भावः । न तदासेति तदा सृष्टेः प्राक्काले नास नासीत् इति ब्रूतां 'नासदा