________________
संकरसर : (१२१)
न्धि पावनाशनमिति वा पवनाशनानां ऋषीणां संबन्धीति वा पावनं अशनं प्राशनं यस्येति वा विरोध परिहार्यः । अतएव निरुक्तयलंकारः । पक्षे तावकगिरि त्वदीयवाचि अपवाहितं अपं अविद्यमान पकारं वाहितं पकारस्थान एव वकारेण आहितं पापनाशन शब्द पावनाशनमित्यभिदधते सर्वदेश्या अपीत्यर्थः । अत्र तुल्ययोगिता निरुक्तयांरेक वाचकानुप्रवेशः ॥
139
यथावा
स्वदनुगृहीतः पुरुषो निगृहीतश्च त्वया बत मुरारे । सहमहिषीकोऽधिवसत्यर्यमशुभ्रं सुभूरिपर्य -
ङ्कम् ॥ २१९६ ॥
हे मुरारे! त्वया अनुगृहीतः निगृहीतश्च पुमान् सहमहिषीकस्सन् आर्यमा भानुरिव शुभ्रं उद्दीप्र 'शुभ्रमुद्दीप्रशुक्लयाः ' इत्यमरः । ‘शुभ्रं स्यादभ्र के क्लीबमुद्दीप्रशुक्लयोः त्रिषु' इति मे - दिनी च । सुभूरिपर्यङ्कं शोभनसुवर्णमञ्चं अधिवसति कृताभिकाभिर्देवीभिस्सह महीयांसं विभवमनुभवति महाराजो भवतीति भावः 'भूरिनी वासुदेव च हरे च परमेष्ठिनि । नपुंसकं सुवर्णे च प्राज्ञे स्याद्वाच्यलिङ्गकः' इति मेदिनी । त्वयाऽनुगृहीत ईद्दशो भवतीति युक्तम् । निगृहीतोऽप्येवंविधो भवतीत्याश्चर्य बतेत्यनेन सूच्यते । परिहारस्तु — महिषीभिस्सैरिभीमिस्सह वर्तत इति तथोक्तस्सन् । अर्यमशुभ्रं इत्यत्र अर्थ अशुभ्रमिति छेदः । अशुभ्रं कलुषं सुभूरि अतिमात्रस्फीतं अर्थ र्यवर्णविधुरं पर्यङ्कं पङ्कमित्यर्थः । अधिवसति महिषजन्म विन्दतीति भावः । अत्र तुल्ययोगितायाः श्लेषोजीवितायाः तथाविधसमविभावनालंकारयोश्चैकवाचकानुप्रवेशलक्षणस्संकरः ॥
ALANKARA IV.
12*