________________
अलङ्कारमणिहारे
इति भरतमुनिना विरुद्धाविरुद्धसजातीयाविजातीयभावान्तरातिरस्कृतानन्दसूक्ष्मावस्थात्वेन लक्षिताः स्थायिनो नाम भावाः । तेषां चेतोवृत्तिविशेषाणां कारणकार्यसहकारिणः विभावानुभावव्यभिचारिभावशब्दैः काव्ये नाट्ये च प्रतिपाद्यन्ते । तद्यथारतिर्नाम स्थायी भावः तस्याः रतेः कारणानि लोकसिद्धानि तरुणनायकरहोदेशावस्थानकोकिलालापमाकन्दमन्दमारुतचन्द्रो-- दयमधुकरलतागृहवापीजलदस्तनितादीनि । तत्कार्याणि दर्शनस्पर्शनोपगृहनचुम्बनभुजवेल्लनादीनि । सहकारिणो निर्वेदादिभेदेन प्रयस्त्रिंशत् । यथा
निर्वेदग्लानिशङ्काख्यास्तथाऽसूयामदश्रमाः। आलस्यं चैव दैन्यं च चिन्ता मोहस्स्मृतितिः ॥ बीडा चपलता हर्ष आवेगो जडता तथा । गर्यो विषाद औत्सुक्यं निद्राऽपस्मार एव च ॥ सुप्तिर्विबोधी हर्षश्चाप्यवहित्थमथोग्रता।
माताधिस्तथोन्मादस्तथा मरणमेव च ॥ .. त्रासश्चैव विकल्पश्च विशे या व्यभिचारिणः। .
प्रयस्त्रिंशदमी भावास्समाख्यातास्तु नामतः ॥ ..इति मुनिना लक्षिताः। एते च यथासंभवं नवानामपि स्थायिनां सहकारिणः । प्रकृते रतिरूपशृङ्गारस्थायिनः औत्सुक्यविस्मयावेगहर्षचपलतादयस्सहकारिणः । हासरूपस्थायिनो विकृतवस्तुदर्शनादयो विभावाः । वदनविकासनरदनप्रकाशनप्रभृतयोऽनुभावाः चापलत्रासादयो व्यभिचारिण इति। अनयैव दिशा रसान्तराणामपि विभावादयो रसाणवसुधाकरादिप्रबन्धदर्शिभिरुनेयाः । एवममीभिर्विभावानुभावव्यभिचारिभिः काव्य