SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ रसवदलङ्कारसरः (१०५) श्लोकानुसंधानप्रतीतैः नाट्ये अभ्यासपाटव निर्वर्तितवाचिक्राङ्गकाद्यभिनयैश्चाभिव्यञ्जितो रत्यादिस्सामाजिकनिष्ठः स्थायीभावो रसः । तदुक्तं मुनिना - ' विभावानुभावव्यभिचारिसंयोगाद्वसनिष्पत्तिः' इति । इति संक्षेपः ॥ 3. अथ रसवदलंकारसरः ( १०५ ) : रसे रसाने भावाङ्गेऽप्येष्वाहू रसवहुधाः । रसो यत्र रसस्य भावस्य वा अङ्गं भवति तत्र रसवनामाऽलंकारः । रसस्य भावस्य वा प्राधान्ये तु ध्वनित्वमेव । अतएव ध्वनिकारः प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥ इति । भावो नाम विभावानुभावाभिव्यञ्जितो निर्वेदादिस्त्रयस्त्रिंशद्भेदः देवतागुरुशिष्य द्विजपुत्रनृपादावभिव्यज्यमाना रतिश्च । तदुक्तं दर्पणे रतिर्देवादिविषया व्यञ्जिता भाव उच्यते । एवं भावतया वेद्या व्यञ्जिता व्यभिचारिणः ॥ इति । यथा सज्यधनुर्गुणनिर्गतशरधारापातधूत यादवम् । रघुतनयमुपजुगूहे पुलकिततनुरवनिजा जनस्थाने ॥ २००१ ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy