________________
100
अलंकारमणिहारे
भवाः । अपि सुमनसश्चयवन्ते वृथैव कतिचन महाफलाग्रहणात् ॥ २१५४ ॥
माधवस्य विदूरसत्त्वाः दूरस्थितय: घनानां महतां जनानां आगमेन प्रातया घनैः आगमैः शास्त्रैर्वा उल्लासिताः सुजातिभवाः सत्कुलप्रसूताः सुमनसो मनीषिणोऽपि कतिचन महाफलस्य निश्श्रेयसरूपस्य उत्तमफलस्य अग्रहणात् वृधैव च्यवन्ते भ्रश्यन्ति । अन्यत्र माधवस्य वसन्तस्य विदूरे सत्त्वं स्थितिः यासां ताः घनागमेन प्रावृषा उल्लासिताः विकासिताः शोभनाश्च ताः जातयः मालतीलताः तासु भवाः कतिचन सुमनसोऽपि पुष्पता प्राप्ता अपि महतः फलस्य अग्रहणात् वृथैव च्यवन्ते । जातीकुसुमानां वसन्तसमये अनुन्मेषात् प्राषि विकासात् फलवत्त्वविरहात् वृथैव च्यवनं भवतीति भावः । अत्राप्रस्तुतजातीकुसुमप्रशंसा प्रस्तुतेषु उक्त विधेषु विद्वत्सु पर्यवस्थतीत्यप्रस्तुतप्रशंसा वा, प्रस्तुतविद्वद्वत्तान्तेनाप्रस्तुतमालतीकुसुमव्यवहारस्फूर्तिरिति समासोक्तिर्वा, प्रकृताप्रकृतश्लेषो वेत्यनध्यवसायादेषां संदेहसंकरः ॥
यथावा
त्वच्चरणसमं किसलयमासेव्याधरिशराश्चिराबस्तः। कान्तरस्तबकस्स्याद्यदि कमले त्वचरणपूजनार्हस्स्यात् ॥ २१५५ ॥
हे कमले! बस्तः छाग: चिरात् बहुकालं अधश्शिराः भक्तया नम्रशीर्षस्सन् बस्तस्य निसर्गतस्तथात्वादिति हार्दम् । आसेव्य संपूज्य भक्षयित्वेति तु तत्त्वम् । कान्तः सुन्दरः स्तबकः कुसुमगुच्छश्चेत् त्वचरणकिसलयास्वादनफलभूतस्तबकजन्मतां