________________
संकरसरः (१२१)
कात्यायनीं वदन्तः कोशकृतो हन्त कोशकृत एव ॥
त्वद्वरदानेन अविच्युतं माङ्गल्यं यस्यास्तां तथोक्तां नित्यसौमङ्गल्यशालिनीमित्यर्थः । बाणासुराहवे भगवता महादेवे पराभूते भीतया भवान्याऽभ्यथितेन तेनैव भगवता नित्यसौमङ्गल्यलक्षणवरोऽस्यै व्यतारीति पद्मपुराणकथाsत्रानुसंहिता । अतएव सर्वमङ्गळां सर्वप्रकारमाङ्गल्य शालिनीत्वेन तन्नामाभिलपनीयां देवीं भवानीं कात्यायनीं 'कात्यायनीत्युमा । या चार्धटद्धा काषायवसना गतभर्तृका । कात्यायन्यर्धवृद्धा या काषायवसनाऽधवा' इत्यभिहिताभिधानां वदन्तः कोशकृतः रत्नमालानामलिङ्गानु शासनादिग्रन्थकृतः कोशकृत एव । हन्तेतीद्दशजुगुप्सितनामकथनचिन्तनप्रयुक्ते खेदे । अत्र कोशकृतां कोशकृत्त्वविधानमनुपयुक्तिवाधितं सत्तदविवेचकतां गर्भीकरोतीति विध्यलंकारो वा । कोशकृतः कोशकृत एव कोशकाराक्रमय एव न तु विवेकशालिनो ग्रन्धकृत इत्यारोपपूर्वक आद्योऽपह्नवो वेत्युभयोरन्यतर निर्धारणे साधकस्य वा बाधकस्य वा प्रमाणस्यादर्शनादनयोस्संदेहसंकरः ॥
यथावा
99
-
मुखरुचिजलनिधिविहरन्नयनझषद्वंद्वजातपोतधियम् । उन्मीलयदुरगाचलविलासिमृगनाभितिलकमव्यान्नः ॥ २१५३ ॥
अत्र धियमिति मतेर्भ्रान्तिरूपत्वविवक्षायां भ्रान्तिमदलंकारे विश्रान्तिः, संभावनात्वविवक्षायां उत्प्रेक्षायामित्यनध्यवसायादनयोस्संदेहसंकरः ॥
यथावा -
माधवविदूरसत्वा घनागमोल्लासितास्सुजाति