________________
94
अलंकारमणिहारे
श्वरश्च यः । शास्ति यश्चाज्ञया राक्षस्स सम्राट्' इत्युक्तलक्षणं सम्राट्त्वं, अन्यत्र ‘स स्वराड्भवति' इत्युक्तं मुक्तैश्वर्य प्रथयन्तं प्रख्यापयन्तं ईदृशकीरीटधारणविरहे सम्राट्त्वप्रसिद्धरयोगादिति भावः । पक्षे विपुलयन्तं असंकुचितं वितन्वन्तमित्यर्थः। काञ्चनलक्ष्मी सुवर्णस्य समृद्धिं शोभा वा पक्षे काश्चन अनिर्वचनीयवैभवां लक्ष्मी भगवती श्रियं दधानं फणिभूभृत् शेषादिरेव भूभृत् राजा तस्य किरीटं किरीटत्वेनाध्यवसितं श्रीनिवासं ईडीय स्तुयाम् । 'ईड स्तुती' लिकुत्तमैकवचनम् । अत्र शिरसा स्वं लालयतामित्यादिश्लेषमूलातिशयोक्तया अङ्गभूतया उन्नह्यमानव भगवति श्रीनिवासे किरीटत्वाध्यवसानरूपरूपकातिशयोक्तिः फणिभूभृति महाराजव्यवहारारोपश्लिष्टरूपकगर्भवोन्नह्यते, उक्तश्लषमूलातिशयोक्तेरुभयोपकारकत्वात् । अत उक्तरूपकातिशयोक्तिरूपकयोरेकः कालः परस्परापेक्षया सौन्दर्योन्मेषश्चोभयोस्तुल्य इति विनिगमनाविरहात्समप्राधान्यम् ॥
यथावा
हन्त सरागालापा त्वत्पाणिस्पर्शविवशिता मु. रळी । अतिमधुरं त्वदधररसमनितरसुलभं किलापिबति शौरे ॥ २॥४७॥
हे शौरे! मुरळी वंशनाळी त्वत्पाणिस्पर्शेन एकत्र रागालापार्थेन अन्यत्र परिरम्भाद्यर्थेन विवशिता परवशीकृता एकत्र तदायत्ततया अन्यत्र स्तम्भप्रलयादिसात्विकभावोदयेन, सरागः सानुरागः आलापः मिथोभाषणं यस्यास्सा तथोक्ता । अन्यत्र रागाणां शंकराभरणादीनां गान्धर्ववेदोक्तानां रागाणां आलापेन