________________
संकरसर: (१२१)
95
सह वर्तत इति तथोक्ता । अनितरसुलभं अतिमधुरं च त्वदधररसं आपिबति किल हन्तेत्येतादृशभाग्यलाभपरिचिन्तनजनिते हर्षे । अत्र सरागालापेत्यादिश्लेषभित्तिकाभेदातिशयोक्तया अङ्गभूतया. परिपोष्यमाणैव मुरळ्या' भगवदधररसास्वादोत्प्रेक्षा मुरळ्यां नायिकाव्यवहारसमारोपरूपसमासोकिंग:व परिपोध्यते, सरागादिशब्दश्लेषस्योभयोजीवकत्वात् । तस्मादुपपादितोत्प्रेक्षासमासोक्तयोरैककालिकत्वात्समासोक्तिगर्भतां विना अधररसास्वादनोत्प्रेक्षाया निरवलम्बनत्वाचात्रापि समप्राधान्यम् ॥
यथावा. मुग्धाऽतिललितलोला स्निग्धा श्रीनाथहृदयपरिरब्धा । गळदंशकाऽनवरतोल्लासं किल याति हारयष्टिरियम् ॥ २१४८ ॥
मुग्धा रम्या उदयद्यौवना च अतिललितं यथातथा लोला चश्चला। अन्यत्र अत्यन्तं ललितेषु विलासविशेषेषु लोला आसक्ता स्निग्धा थाळथळ्यवती स्नेहवती च । इयं हारयष्टिः स्त्रीलिङ्गान्नायिकोत च प्रतीयते । श्रीनाथहृदयेन परिरब्धा सती गळन्त: प्रसृमराः अंशवो यस्यास्सा गळदंशुका ‘शेषाद्विभाषा' इति कप्। अन्यत्र अतएव गळत् संसमानं अंशुकं वसनं यस्यास्सा तथोक्ता। अनवरतं सततं उल्लासं प्रकाशं, इतरत्र नवरते अभिनव संभोगे उल्लासं कुतूहलं याति किलेत्युत्प्रेक्षा ॥
अत्र मुग्धेत्यादिश्लेषमूलाभेदाध्यवसायातिशयोक्तया अङ्गतामापन्नया उत्तभ्यमानैव गळदंशुकेत्यादिश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तयवलम्बिनी श्रीनिवासोरस्स्थलपरिरम्भहेतु