________________
काव्यलिङ्गसरः (६२)
81
र्धवाक्यार्थसमर्थनम् । अत्र तामससमतावाप्तिप्रतिषेधस्य माधवसङ्गरूपपदार्थेन समर्थनं वा ॥
यथावा
कुरु दीर्घाकारां श्रीः कृपां विहितसंप्रसारणां सदये । न तव ख्यायेत कृपा सुतरामयि संप्रसारणाकरणे ॥ १५५५ ॥
हे सदये श्रीः ! दीर्घः आकारः स्वरूपं यस्यास्तां तथोक्तां कृपां करुणां विहितं कृतं संप्रसाराणं सुदूरव्यापनं यया तां तथोक्तां कुरु । मय्यविच्छिन्नां कृपां प्रसारयेत्यर्थः । मयि त्वत्कृपावलम्वैकार्थिनीति भावः। संप्रसरणाकरणे तव सुतरा शोभनतरा कृपा न प्रख्यायेत न प्रथेत । त्वत्कृपैकशरणे दीने मयि त्वं कृपां न प्रसारयसि चेत्तव कृपायाः ख्यातिरेव नोन्मिषेदिति भावः ॥
पक्षे दीर्घः अकारः अवर्णोऽन्ते यस्यास्तां आकारान्तामित्यर्थः। कृपां कृपेति शब्दव्यक्ति विहित वक्ष्यमाणसूत्रेणानुशिष्टं संप्रसारणं रेफरूपयणस्थानिकसंप्रसारणसंशकवणे यस्यास्तां तथो. कां कुरु । सुतरां आये इति छेदः। अयि श्रीरिति योजना । संप्रसारणाकरणे 'क्रपेस्संप्रसारणं च ' इति बिदाद्यसंनियोगशिष्टसंप्रसारणस्य अकरणे कृपा कृपेति शब्दव्यक्तिरेव तव सुतरां न ख्यायेत । न सिध्येदिति यावत् । अत्र पूर्वार्धवाक्यार्थस्य कृपासंप्रसारणावश्यकतारूपस्य तदकरणे तदख्यात्यांपादनरूपो
ALANKARA-III,
11 .