________________
82
अलङ्कारमणिहारे
त्तरार्धवाक्यार्थेन समर्थनम् । अत्रापि पूर्ववदेव सदयत्वरूपपदार्थों वा हेतुः॥
यथावात्वच्चरणशरणवरणादकुतोभयतामलप्स्महीदानीम्। कीनाशमनादरणात्कीशमिवेक्षामहे महेश वयम् ॥ १५५६ ॥
हे महेश! भगवन् ! ___ यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलानस्य यः परस्स मेहश्वरः ॥ इति श्रुतेः। अतएव ‘महेश हातुं तव पादपङ्कजम्' इति यमुनाचार्याश्चाहुः । अलप्स्ममहि अलभामहि । इदानी ईदृशलाभानन्तरमित्यर्थः । कीनाशं कृतान्तं क्षुद्रमित्यपि गम्यते । 'कृतान्ते पुसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु' इत्यमरः । अनादरणात् निर्ल यामत्यर्थः। कोशमिव कपिमिवेक्षामहे अकिंचित्करं मन्यामहे इति भावः । 'मर्कटो वानरः कीशः' इत्यमरः । पक्षे कीनाशशब्दं नः नाकारस्य आदरणं नादरणं ततो नसमासः अनादरणं तस्मात् नाकारत्यागादिति यावत् । कोशं कीशशब्द ईक्षामहे । कीनाशशब्दं नाकारोत्सारणेन कीशशब्दं विद्म इत्यर्थः । इवशब्दो वाक्यालङ्कारे। स्पष्टमन्यत् । अत्र भगवञ्चरणशरणवरणनिबन्धनाकुतोभयत्वप्राप्तिरूपपूर्ववाक्यार्थेन इदानीमित्यादेः कीनाशकीशतादर्शनरूपोत्तरवाक्यार्थस्य समर्थनम् । अयमेव पूर्वोदाहरणेभ्यो विशेषः । पूर्वत्र उत्तरवाक्यार्थेन पूर्ववाक्यार्थसमर्थनं हि कृतम् ॥