________________
80
.
अलङ्कारमणिहारे
हे भगवन् ! त्वञ्चरणमेव त्वत्तोऽपि वरिष्ठं शरणं रक्षक इति मत्वा शरणं वृणे उपायतया वृणोमि ।
उपाये गृहरक्षित्रोश्शब्दश्शरणमित्ययम् । वर्तते सांप्रतं चैष उपायाथकवाचकः ॥ इत्यहिर्बुध्नयसंहितोक्तेः । यदिदं त्वचरणं जगतां सुगतिं शोभनमुपाबं गम्यं स्थानं उत्तमदशां वा प्रददातीति तथोक्तः । तथाविधस्य भवतोऽपि सुगतिं ददाति, उक्त एवार्थः । रमणीयं गमनमिति तु वस्तुस्थितिः । ‘गतिः स्त्री मार्गदशयोर्शाने यात्रा. भ्युपाययोः' इति मेदिनी ॥ अत्राप्युत्तरवाक्यार्थेन पूर्ववाक्यार्थस्य समर्थनम् ॥
यथावा
मा गास्तामससमतां माधवसक्तं कदाऽपि मानस भोः। सा न निवर्तेत ततस्सहस्रकृत्वोऽप्यधशिशरःपतने ॥ १५५४ ॥
भो मानस! त्वं माधवविमुखं सत् कदापि तामससमतां तामसप्रकृतिभिस्तुल्यतां मा गा: । वैपरीत्ये अनिष्टमापद्यतेत्याहसेत्यादिना । ततः तामससमतावाप्त्यनन्तरं सा तामससमता सहस्रकृत्वः अधशिशरःपतनेऽपि न निवर्तेत इति लोकोक्तिः । अतो मा तामसं भूरिति भावः। पक्षे सा तामससमतेति शब्दव्यक्तिः । अर्थगतं स्त्रीत्वं शब्दे आरोप्यत इत्यसकृदवोचाम । सहस्रकृत्वः अधश्शिरःपतनेऽपि वैपरत्यिप्राप्तावपीति यावत् । न निवर्तेत निवृत्तिप्रयुक्तवैलक्षण्यं नाप्नयादिति यावत् । पूर्वानुपूविशिष्दैव भवतीति भावः । अत्राप्युत्तरार्धवाक्याथैन पूर्वा