SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 78 अलङ्कार मणिहारे छेदः । अपां समूहः आपं आप यातं गतं यस्मात्स तथोक्तः विगतसलिलनिवह इत्यर्थः । न स्यात् सदाऽपि सलिलपूर्णत्वादिति भावः । पक्षे न अपयातः पेन पकारण यातः पयातः न पयातः अपयातः न स्यात् । पयोनिधिराब्दस्य पकारघटितत्वादित्यर्थः । शब्दार्थयोस्तादात्म्म् । यः पयोनिधिराद् अपराजिततां अपराभूततां निर्गताः अहिताः यस्य सः निरहितः तस्य भावः निरहितता । तां निस्सपत्नतां च प्राप्तस्सन् अधिराहू राजाधिराजो भवति । स कथमिव अपयातः स्यादिति योजना | पक्षे पयोनिधिरादुन्दः अपराजिततां पवर्णभासुरत्वाभावं निरहिततां निवर्णराहित्यं च प्राप्तः योधिराट् भवात योधिराडिति निष्पद्यत इत्यर्थः । अत्राप्युत्तरार्धवाक्यार्थेन पूर्वार्धवा क्यार्थस्य समर्थनम् । वक्ष्यमाणपदार्थहेतुकस्यापीदमुदाहरणं भविष्यति ॥ " यथावा इन्द्राधिकस्त्वदीयस्तन्द्राधिक एव भवति परकीयः । कथमनयोरैक्यं स्यादभिदधति तयोरितस्ततो भेदम् || १५५१ ।। इन्द्राधिकः इन्द्रादप्यतिशयितश्रीः । तन्द्राधिकः अधिकतन्द्रः अलस इत्यर्थः । तयोः त्वदीयपरकीययोः इतस्ततः तत्रतत्र भेदं, पक्षे तयोः इन्द्रधिकतन्द्राधिकशब्दयोः इतः इकारेण ततः तकारेण च भेदं वैलक्षण्यं अभिदधति । जना इति शेषः । तयोस्तावानेव भेदो नान्य इति भावः । अत्र अभिदधतीत्यादिवाक्यार्थेन उत्तरेण पूर्ववाक्यार्थसमर्थनम् । भगवदीयान्यदी
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy