________________
काव्यलिङ्गसरः (६२)
77 .
. पदवाक्यरत्नाकरे तु एकशब्दोपात्तयोर्वाच्यार्थयोरव शब्दरूपव्यङ्गयार्थस्यार्थरूपवाच्यार्थस्य चाभेदाध्यवसाय इत्युक्तम् । अयं हि तद्गन्थः “आलंकारिकास्तु व्यञ्जनया वृत्त्या उपस्थितानां पदानामन्वयबुद्धौ क्वचित्तादात्म्येन क्वचिद्वाच्यवाचकभा. वेन पदार्थानुप्रवेशः । तथाहि___ “दया तितिक्षां सत्यं च युक्तं व्यक्त ननु त्वया ।
अपवर्गव्यञ्जनानि कथं स्युर्मिमभूमिप ।। इत्यत्र भीमाभिधाने राजनि प्रकृते भीमभूमिपपदस्य व्यञ्जना. लभ्यस्य तादात्म्यमारोप्य तस्मिन्नपवर्गव्यञ्जनानामासन्नसिद्धि' सूचकानां दयातितिक्षादीनां प्रस्तुतानां ध्वनिप्रतीतपवर्गेतरस्वरान्यवर्णाभेदेनासंभवः कथं स्युरित्यनेन प्रतिपाद्यते” इत्यादि । अधिकं तु · तत्रैवानुसंधेयम् । एवंच तादात्म्यं शाब्दिकानामिवालकारिकाणामप्यभिमतमित्यत्र न कोऽपि संदेहः । अनया दिशा 'मूकीभावो विशिष्यते ' इत्यायुदाहरणेप्वाप निर्वाहो द्रष्टव्यः ॥
यथावा
स्याज्जातु नापयातो भवदाधारो हरे पयोनिधिराट् । अपराजिततां प्राप्तो निरहिततां चापि योधिराड्भवति ॥ १५५० ॥
हे हरे! भवदाधारः भवान् आधारः आश्रयः यस्य स तथाभूतः, तत्त्वं तु भवतः अधारः अधिकरणमिति । भवतस्समुद्रशायित्वादिति भावः । पयोनिधिराट् जलधिराजः जात्वपि अपयात. रणे अपयानं प्राप्तः पराभूतः न स्यात् । भवदाश्रितस्यापयानं न भवेदिति भावः । वस्तुतस्तु न आपयात इति