________________
14
अलङ्कारणिहारे ।
द्यथाश्रुत एव द्वयोर्विश्रान्तेः । तस्माद्येन न्यायेनैकार्थस्सिद्वस्तेनैव न्यायेनापरोप्यर्थस्सेद्धमहतीत्येवंरूपेयमापत्तिः। अस्यां चार्थान्तरं लोके अविद्यमानभपि कविना स्वप्रतिभया कल्पयित्वा यद्यापाद्यते तद ऽलंकारत्वं, यथा 'सुरवैणिकवरसंसदि इत्यादौ । अन्यथा तु कैमुतिकन्यायतामात्रं यथा 'सावरणान् ब्रह्माण्डान् ' इत्यादौ। प्राचीनरीत्या तदुदाहृतमस्माभिः । अत एव तत्र कैमु. तिकन्यायेनेत्युक्तम् । यत्तु ‘कैमुत्येनार्थसंसिद्धिः' इति कुवलयानन्दकद्भिर्लक्षणमुक्तं तन्नातीवहृदयगम, कैमुतिकन्यायस्य न्यूनाविषयत्वेनाधिकाद्यर्थापत्तावव्याप्तेः। यथा--
त्वचरणशरणगतमप्यभिभवति श्रीश यदि च भवतापः। पीयूषकिरणमप्यभिभविता शनकैनिदाघभवतापः ॥ १५४७ ॥
अत्र शनकैश्शब्दमहिम्ना भगवत्प्रपन्नेषु भवतापाभिभवापेक्षया पीयूषकिरणे ग्रीष्मतापकर्तृकाभिभवो दुष्कर एवेति विदित. मपि न्यायसाम्यादापाद्यते । न तु कैमुतिकन्यायेन ॥
अत्र वैद्यनाथः- “केनचिदर्थेन तुल्यन्यायत्वादर्थान्तरस्यापत्तिरपत्तिः । न्यायश्चात्र कारणम् । इति रसगङ्गाधरोक्तल. क्षणमयुक्तं, का वार्ता सरसीरूहामिति कैमुत्यन्यायविषयार्थाः पत्तावव्याप्तेः। कैमुतिकन्यायस्य न्यूनार्थविषयत्वेन तुल्यन्ययत्वाभावादापादनाप्रतीतेश्च । न चात्र कैमुत्यन्यायतामात्र न त्वलं. कारत्वमिति युक्तं, अलंकारतत्वविदामभियुक्तानां प्राक्तनानां शून्यहृदयताया अपामरेण संभावयितुमशक्यत्वात् । लाकव्यवहारेऽपि कैमुत्यन्यायस्य चमत्कारित्वानुभवेन तेनैव न्यायेन